अथाप्युक्तममात्यैश्च किं करोषि महीपते
स राजा कथयामास दुःस्वप्नाननुपूर्वशः
उपरुद्धां च जगतीं घनेन तमसा वृताम्
पतंतमद्रिशिखरात्कलुषे गोमये ह्रदे
तैलेनाभ्यक्तसर्वांगस्तैलमेवावगाहयन्
गायंति प्रमदा रक्ता रक्तमाल्यानुलेपनाः
ताभिराकृष्यमाणोऽपि नीतोऽहं दक्षिणां दिशम्
पांसुकर्दमयोर्मध्ये मग्नोहं लोहयंत्रितः
सृगालैर्भक्ष्यमाणश्च स्थितो मद्गुरमस्तके 5.2.80.
नदीं निमग्नो निश्चेष्टो जलहीनां महीसमाम्
ताडितो हदयेत्यर्थं चरणैर्वज्रसंनिभैः
करालैः कंटकैः कृष्णैः पुरुषैरुद्यतायुधैः
एवमेतन्मया दृष्टमिमांरात्रिं भयावहाम्
इमां तु दुःस्वप्नगतिं निरीक्ष्य वै ह्यनेकरूपामविचिंतितां पुरा
नृपस्य वचनं श्रुत्वा अमात्या भृशदुःखिताः
सौरि सूर्यकुजाक्रांतं नगरं दृश्यतेऽधुना
करणानि न शस्यंते मुहूर्त्ता दारुणाभवन्
आश्वासयंतो राजानमिदं वचनमब्रुवन्
दृश्यंते भाविताः पुंसि स्वप्ने धातुवशेन हि 5.2.80.
एभिस्ततो मोक्ष्यसे त्वं मानसादधिविभ्रमात्
एवमाश्वासितो भूपो ह्यमात्यैर्धर्मकोविदैः
वशिष्ठस्य सुतो ज्येष्ठः शक्ति र्वै भक्षितो मया
तेन पापेन संतप्तः कथं स्वस्थो भवामि वै
मया पुनर्नृशंसेन सा तथा न तु वर्जिता राक्षसोऽहमनेनैव शरीरेण कुलांतकृत्
जातः कुले रघूणां वै पापात्मा पापसंभवः
इति तस्य वचः श्रुत्वा सौदासस्य सुविस्मिताः
अहो पापमिदं भूरि कृतं पापेन सर्वथा
तस्मादद्यैव गंतव्यमस्य भूपस्य कारणात्
इत्युक्त्वा सहितास्तेन तेऽमात्या भृशदुःखिताः 5.2.80.
अदृश्यंतीं वधूं दीनां यत्राश्वासयति प्रभुः भयसंविग्नया वाचा वशिष्ठमिदमब्रवीत्