कंपस्वेदपरित्राणलज्जाप्रणयकेलिदात्
अथ तामब्रवीत्कापि दैवी वागशरीरिणी
त्वयार्चितमिदं लिंगं सैकतं स्थिरवैभवम्
तपश्चर्यां तवालोक्य रचितं धर्मपालनम्
अहं हि तैजसं रूपमास्थाय वसुधातले
रुणद्धि सर्वलोकेभ्यः परुषं पापसंचयम्
ऋषयः सिद्धगंधर्वा महात्मानश्च योगिनः
मदंश जातयोः पूर्वं युध्यतोर्ब्रह्मकृष्णयोः 1.3.1.4.
ब्रह्मणा हंसरूपेण विष्णुना क्रोडरूपिणा
ततः प्रसन्नः प्रत्यक्षस्तस्यां वरमभीप्सितम्
प्रार्थितश्च पुनस्ताभ्यामरुणाचलसंज्ञया
गत्वा पृच्छ महाभागं मद्भक्तिं गौतमं मुनिम्
तत्र ते दर्शयिष्यामि तैजसं रूपमात्मनः
इति वाचं समाकर्ण्य निष्कलात्कथितां शिवात्
अथ देवानृषीन्सर्वान्पश्चात्सेवार्थमागतान्
तिष्ठतात्रैव वै देवा मुनयश्च दृढव्रताः
सर्वपापक्षयकरं सर्वसौभाग्यवर्द्धनम्
अहं च निष्कलं रूपमास्थायैतद्दिवानिशम् 1.3.1.4.
मत्तपश्चरणाल्लोके मद्धर्मपरिपालनात्
सर्वकामप्रदानेन कामाक्षीमिति कामतः
अहं हि देवदेवस्य शंभोरव्याहतो जनः
तत्र गत्वा तपस्तीव्रं कृत्वा शंभुं प्रसाद्य च
इति सर्वान्विसृज्याशु सद्भक्तान्पादसेविनः
नित्याभिसेविताऽकारि सखीभिरभियोगतः
अंतस्तेजोमयं शांतमरुणाचलनायकम्
प्रणम्य स्थावरं लिंगं कौतूहलसमन्विता
अत्रिर्भृगुर्भरद्वाजः कश्यपश्चांगिरास्तथा
तपः कुर्वंति सततमपेक्षितवराप्तये 1.3.1.4.
दिव्यलिंगमिदं पूज्यमरुणाद्रिरिति स्मृतम्
अभ्यर्थिता पुनः सर्वैरातिथ्यार्थे महर्षिभिः