अमित्रभयदो ह्येष मित्राणामभय प्रदः
शत्रोर्बलोत्सादनाय राघवप्रीतये सदा
हते तु रावणे भूयो रामस्यानुमते स्थितः
ततो मां त्रिदशाः सर्वे पूजयिष्यंति भाविताः
अथ गंधवहः पुत्रं प्रगृह्य गृहमानयत् 5.2.79.
एवं लिंगप्रभावाच्च बलवान्मारुतात्मजः
पराक्रमोत्साहमति प्रतापैः सौशील्यमाधुर्यनयादिकैश्च
ममेव विक्षोभितसागरस्य लोकान्दि धक्षोरिव पावकस्य
एतद्वै कथित तुभ्यं यन्मां त्वं परि पृच्छसि
दृष्टः सभाजितश्चापि राम गच्छामहे वयम् पूजयामासुरीशानं हनुमत्केश्वरं शिवम् समर्चयंति ये भक्त्या लिंगं त्रिदशपूजितम्
व्रजंत्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमव्ययम्। संप्राप्य तु पुनर्जन्म लभंते मोक्षमव्ययम्
यः पश्यति नरो लिंगं हनुमत्केश्वरॆ प्रिय
सर्वलोकेषु तस्यैव गतिर्न प्रतिहन्यते
बालसूर्यप्रतीकाशविमानेन सुवर्चसा 5.2.79.
विचरत्यविचारेण सर्वलोकान्दिवौकसाम्
स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान्
राजा वा राजतुल्यो वा दर्शनादस्य जायते
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे हनुमत्केश्वरमाहात्म्यवर्णनंनामैकोनाशीतितमोऽध्यायः
आशीतिकं विजानीहि देवं स्वप्नेश्वरं प्रिये
कल्माषपादेति ख्यातो लोके राजा बभूव ह
स कदाचिद्वने राजा वशिष्ठसुतमौरसम् मार्गस्थितं तपोनिष्ठमपगच्छेति चाब्रवीत्
अमुंचंतं तु पंथानं तमृषिं नृपसत्तमः
कशाप्रहाराभिहतस्ततः स मुनिपुंगवः
हंसि राक्षसवद्यस्माद्राजापसद तापसम्
सततं पिशितासक्तश्चरिष्यसि महीमिमाम्
जगाम शरणं शक्तिं प्रसादयितुम र्हयत् प्रसाद्यमानो भूपेन तदा तेनापि भक्षितः
शक्तिं तं भक्षयित्वा तु वशिष्ठस्यापरान्तु तान्
तदाप्रभृति संजातः पुरुषादो नृपोत्तमः ।। 5.2.80.
दृष्ट्वा भयानकान्स्वप्नान्स राजा पर्य्यतप्यत