ततो गिरौ पपातैष शक्रवज्राभिताडितः अस्मिंस्तु पतिते बाले मृतकल्पेऽशनिक्षतात्
ततो वायुः समादाय महा कालवनं गतः
स्पृष्टमात्रस्तु लिंगेन समुत्तस्थौ प्लवंगमः
प्राणवंतमिमं दृष्ट्वा पवनो हर्षितस्तदा
स्पर्शनादस्य लिंगस्य मम पुत्रः समुत्थितः 5.2.79.
एतस्मिन्नंतरे शक्रः समायातः सुरैर्वृतः
मत्करोत्सृष्टवज्रेण यस्मादस्यहनुर्हतः
वरुणोऽस्व वरं प्रादान्नास्य मृत्युर्भविष्यति
सूर्येण च प्रभा दत्ता पवनेन गतिर्द्रुता
आयुधानां हि सर्वेषामवध्योऽयं भविष्यति
अमित्रभयदो ह्येष मित्राणामभय प्रदः
शत्रोर्बलोत्सादनाय राघवप्रीतये सदा
हते तु रावणे भूयो रामस्यानुमते स्थितः
ततो मां त्रिदशाः सर्वे पूजयिष्यंति भाविताः
अथ गंधवहः पुत्रं प्रगृह्य गृहमानयत् 5.2.79.
एवं लिंगप्रभावाच्च बलवान्मारुतात्मजः
पराक्रमोत्साहमति प्रतापैः सौशील्यमाधुर्यनयादिकैश्च
ममेव विक्षोभितसागरस्य लोकान्दि धक्षोरिव पावकस्य
एतद्वै कथित तुभ्यं यन्मां त्वं परि पृच्छसि
दृष्टः सभाजितश्चापि राम गच्छामहे वयम् पूजयामासुरीशानं हनुमत्केश्वरं शिवम् समर्चयंति ये भक्त्या लिंगं त्रिदशपूजितम्
व्रजंत्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमव्ययम्। संप्राप्य तु पुनर्जन्म लभंते मोक्षमव्ययम्
यः पश्यति नरो लिंगं हनुमत्केश्वरॆ प्रिय
सर्वलोकेषु तस्यैव गतिर्न प्रतिहन्यते
बालसूर्यप्रतीकाशविमानेन सुवर्चसा 5.2.79.
विचरत्यविचारेण सर्वलोकान्दिवौकसाम्
स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान्
राजा वा राजतुल्यो वा दर्शनादस्य जायते
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे हनुमत्केश्वरमाहात्म्यवर्णनंनामैकोनाशीतितमोऽध्यायः
आशीतिकं विजानीहि देवं स्वप्नेश्वरं प्रिये