जन्ममृत्युभयं हित्वा स याति परमां गतिम् ।। 5.2.78.
ब्रह्महापि च यो गच्छेदविमुक्तेश्वरं यजेत्
शाठ्येनापि च यः पश्येदविमुक्ते श्वरं शिवम्
स्मृतः संपूजितो भक्त्या स्तुतो वा विविधैः स्तवैः
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण समीहितफलं लभेत्
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते
रामेण पूजिताः सर्वे ह्यगस्तिप्रमुखा द्विजाः
दिष्ट्या तु निहतो राम रावणः पुत्रपौत्रवान्
हनूमता च सहितं वानरेण महात्मना
चिरं जीवतु दीर्घायुर्वानरो हनुमान्सदा
आखंडलोऽग्निर्भगवान्यमो वै निऋतिस्तथा ब्रह्मणा सहिताश्चैव दिक्पालाः पातु सर्वदा
श्रुत्वा तेषां तु वचनं मुनीनां भावितात्मनाम्
किमर्थं लक्ष्मणं त्यक्त्वा वानरोऽयं प्रशंसितः
अथोचुः सत्यमेवैतत्कारणं वानरोत्तमे 5.2.79.
एष देव महाप्राज्ञो योजनानां शतं प्लुतः
प्रादेशमात्रप्रतिमं कृतं रूपमनेन वै
सेनाग्रगा मंत्रिपुत्राः किंकरा रावणात्मजाः
भूयो बन्धविमुक्तेन संभाष्य तु दशाननम्
न कालस्य न शक्रस्य न विष्णोर्वेधसोऽपि वा
राम उवाच एतस्य बाहुवीर्येण लंका सीता च लक्ष्मणः
सखायं वानरपतिर्मुक्त्वैनं हरिपुंगवम्
वाली किमर्थमेतेन सुग्रीवप्रियकाम्यया
नायं विदितवान्मन्ये हनुमानात्मनो बलम्
एवं ब्रुवाणं रामं तु मुनयो वाक्यमब्रुवन् 5.2.79.
न बले विद्यते तुल्यो न गतौ न मतावपि
न ज्ञातं हि बलं येन बलिना वालिमर्दने
तन्न वर्णयितुं शक्यमेतस्य तु बलं महत्
असौ हि जातमात्रोऽपि बालार्क इव मूर्त्तिमान्
तूर्णमाधावतो राम शक्रेण विदितात्मना