किंचित्पातकशुद्ध्यर्थं चंडालस्य च वेश्मनि 5.2.78.
सारमेयैर्वृता दीना भक्ष्यमाणा पुनःपुनः तैरहं तुद्यमानापि महाकालवनं गता
दृष्टो मया महादेवो दैवतो मृगमाणया
तस्य दर्शनमात्रेण गता शक्रपुरं प्रति दिव्यांबरधरा दिव्या दिव्यमालाविभूषणा
तत्राहं पूजिता देवैः स्तुताहं चारणैस्तथा
वल्लभा रूपसंपन्ना शाकले नगरे शुभे
स्मृत्वा लिंगस्य माहात्म्यं हर्षो जातस्तु तत्क्षणात्
जाता जातिस्मरा तात ब्रह्मचर्यव्रते स्थिता यथा न भूयो मे जन्म स्याच्च संसारसागरे
इति पुत्रीवचः श्रुत्वा चित्रसेनो महीपतिः
ददर्श तत्र तल्लिंगं पूजयामास भक्तितः
राजा च पुत्रवाञ्जातो लिंगदर्शनतः प्रिये 5.2.78.
एतस्मिन्नंतरे देवि दृष्ट्वा देवे लयं गताम्
अविमुक्तस्य लिंगस्य दर्शनादेव तत्क्षणात्
योऽसौ काश्यां प्रसिद्धोऽस्ति देवो विश्वेश्वरः शिवः
वाराणसी यथा पुण्या तथावंती च मुक्तिदा
तस्माद्विश्वेश्वरो देवः समायातः कुशस्थलीम्
पश्यंति परया भक्त्या ह्यविमुक्तेश्वरं शिवम्
अमुक्ता नैव पश्यंति मुक्ताः पश्यंति सर्वदा
तत्फलं प्राप्यते सम्यगविमुक्तेशदर्शनात्
या गतिः प्राप्यते सांख्यैयोगैर्वा या गतिर्भवेत्
जन्ममृत्युभयं हित्वा स याति परमां गतिम् ।। 5.2.78.
ब्रह्महापि च यो गच्छेदविमुक्तेश्वरं यजेत्
शाठ्येनापि च यः पश्येदविमुक्ते श्वरं शिवम्
स्मृतः संपूजितो भक्त्या स्तुतो वा विविधैः स्तवैः
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण समीहितफलं लभेत्
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते
रामेण पूजिताः सर्वे ह्यगस्तिप्रमुखा द्विजाः
दिष्ट्या तु निहतो राम रावणः पुत्रपौत्रवान्
हनूमता च सहितं वानरेण महात्मना