अहमूढां कुलीनेन द्विजेनातिगुणेन च 5.2.78.
तेन मे वल्लभो राजन्न चाहं तस्य वल्लभा
नान्यत्र कुरुते भावं ब्रह्मचर्यव्रते स्थितः अपृच्छं प्रमदास्तात यास्त्यक्ताः पतिभिः किल
ताभिरुक्ता ह्यहं भूप वश्यो भर्त्ता भविष्यति
भेषजैर्विविधैश्चूर्णैर्मंत्रैर्मोहकरैः परैः
ततोऽहं त्वरिता गत्वा तासां वाक्येन भूपते
प्रदोषे पयसा युक्तश्चूर्णो भर्त्तरि योजितः
यदा पीतश्च चूर्णस्तु मन्त्रेणातीव गुंठितः
द्वारदेशे स्थितः क्रंदन्दासोऽस्मि तव शोभने
तत्तस्य रुदितं ज्ञात्वा मंत्रमाहात्म्यतो नृप
ततः प्रभृति कांतो मे वश्योऽभूद्भवने स्थितः 5.2.78.
ताम्रभ्राष्ट्रे च दग्धाहं युगानि दश पंच च छेदिता कालसूत्रेण पीडिता घ्राणयंत्रके
क्वाथीभूता तप्ततैलैर्घटे दर्व्याथ लोडिता
दलिता दंतदलने दग्धाहं रौरवे भृशम्
यान्यापि युवती तात भर्तुर्वश्यं समाचरेत्
भर्त्ता नाथो गुरुर्भर्ता भर्त्ता वै दैवतं परम्
तुष्टे भर्त्तरि नारीणां तुष्टाः स्युः सर्वदेवताः भस्मीभवति सा नारी यया भर्त्ता न तोषितः
यस्य प्रसादात्प्राप्यंते भोगाश्च विविधाः सदा
तिर्यग्योनिशतं याति कृमिपक्षिशतानि च
एवं पुनर्मया भुक्ता नरका भृशदारुणाः
किंचित्पातकशुद्ध्यर्थं चंडालस्य च वेश्मनि 5.2.78.
सारमेयैर्वृता दीना भक्ष्यमाणा पुनःपुनः तैरहं तुद्यमानापि महाकालवनं गता
दृष्टो मया महादेवो दैवतो मृगमाणया
तस्य दर्शनमात्रेण गता शक्रपुरं प्रति दिव्यांबरधरा दिव्या दिव्यमालाविभूषणा
तत्राहं पूजिता देवैः स्तुताहं चारणैस्तथा
वल्लभा रूपसंपन्ना शाकले नगरे शुभे
स्मृत्वा लिंगस्य माहात्म्यं हर्षो जातस्तु तत्क्षणात्
जाता जातिस्मरा तात ब्रह्मचर्यव्रते स्थिता यथा न भूयो मे जन्म स्याच्च संसारसागरे
इति पुत्रीवचः श्रुत्वा चित्रसेनो महीपतिः
ददर्श तत्र तल्लिंगं पूजयामास भक्तितः