इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम् आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे पुष्पदन्तेश्वरमाहात्म्यवर्णनंनाम सप्त सप्ततितमोऽध्यायः
यस्य दर्शनमात्रेण तीर्थयात्राफलं लभेत्
शाकले नगरे देवि चित्रसेनो महीपतिः
तस्य चन्द्रप्रभा भार्या प्राणे भ्योऽपि गरीगसी
अपुत्रस्यापि नृपतेः पुत्री जाता मनोरमा
सर्वलक्षणसंपन्ना कन्या लावण्यवत्यपि
वैराग्याद्ब्रह्मचर्यं च चचार तनुमध्यमा
उत्संगे च निजे कृत्वा मूर्ध्नि चाघ्राय हर्षितः
नृपाय नृपपुत्राय संमताय द्विजाय वा हर्षेण चावृतो राजा पुनः पप्रच्छ तां सुताम्
पृष्टा च सा यदा देवी न चोवाच नृपं प्रति
यदि मद्वचनं पुत्रि प्रतिभाति न सांप्रतम् 5.2.78.
इत्युक्ता सा नृपतिना पित्रा प्रोक्ता पुनःपुनः
जहास चातिहासेन पुनः श्वासांश्च मुंचति
तामवस्थां गतां दृष्ट्वा पुत्री मुन्मत्ततां गताम्
भूतेन वा पिशाचेन मत्सुता लक्षणैर्युता
तदा प्रोक्तस्तया पुत्र्या मा तात विमना भव
न पिशाचेन यक्षेण तव कन्या महीपते
प्राग्ज्योतिषे पुरे विप्रो हरस्वामी बभूव ह
रूपयौवनसंपन्ना तस्य नाहं प्रिया विभो
नान्यस्य कस्यचिद्द्वेष्टा मुक्त्वा मां पृथिवीपते
अहमूढां कुलीनेन द्विजेनातिगुणेन च 5.2.78.
तेन मे वल्लभो राजन्न चाहं तस्य वल्लभा
नान्यत्र कुरुते भावं ब्रह्मचर्यव्रते स्थितः अपृच्छं प्रमदास्तात यास्त्यक्ताः पतिभिः किल
ताभिरुक्ता ह्यहं भूप वश्यो भर्त्ता भविष्यति
भेषजैर्विविधैश्चूर्णैर्मंत्रैर्मोहकरैः परैः
ततोऽहं त्वरिता गत्वा तासां वाक्येन भूपते
प्रदोषे पयसा युक्तश्चूर्णो भर्त्तरि योजितः
यदा पीतश्च चूर्णस्तु मन्त्रेणातीव गुंठितः
द्वारदेशे स्थितः क्रंदन्दासोऽस्मि तव शोभने
तत्तस्य रुदितं ज्ञात्वा मंत्रमाहात्म्यतो नृप