मया संश्लेषितः स्नेहादुत्संगेऽप्यधिरोपितः
ये पश्यंति नरा लिंगं त्वया संपूजितं भुवि 5.2.77.
गणाध्यक्षा भविष्यंति सर्वकामैरलंकृताः
दर्शनात्क्षीयते पापमैहिकं पूर्वकं तथा
यः पूजयेच्चतुर्द्दश्यामष्टम्यां सोमवासरे
पैतृकैर्मातृकैः सार्द्धं कुलैस्तु सप्तभिर्युतः
पुष्पदंतेश्वरं दृष्ट्वा सोऽश्वमेधफलंलभेत्
मृतो गांधर्वलोके तु याति विद्याधरैर्वृतः नियमेन गणाध्यक्ष जायते ब्रह्मणो दिनम्
ऐश्वर्यं सप्तलोकेषु भुक्त्वा भोगान्यथाक्रमम्
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम् आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे पुष्पदन्तेश्वरमाहात्म्यवर्णनंनाम सप्त सप्ततितमोऽध्यायः
यस्य दर्शनमात्रेण तीर्थयात्राफलं लभेत्
शाकले नगरे देवि चित्रसेनो महीपतिः
तस्य चन्द्रप्रभा भार्या प्राणे भ्योऽपि गरीगसी
अपुत्रस्यापि नृपतेः पुत्री जाता मनोरमा
सर्वलक्षणसंपन्ना कन्या लावण्यवत्यपि
वैराग्याद्ब्रह्मचर्यं च चचार तनुमध्यमा
उत्संगे च निजे कृत्वा मूर्ध्नि चाघ्राय हर्षितः
नृपाय नृपपुत्राय संमताय द्विजाय वा हर्षेण चावृतो राजा पुनः पप्रच्छ तां सुताम्
पृष्टा च सा यदा देवी न चोवाच नृपं प्रति
यदि मद्वचनं पुत्रि प्रतिभाति न सांप्रतम् 5.2.78.
इत्युक्ता सा नृपतिना पित्रा प्रोक्ता पुनःपुनः
जहास चातिहासेन पुनः श्वासांश्च मुंचति
तामवस्थां गतां दृष्ट्वा पुत्री मुन्मत्ततां गताम्
भूतेन वा पिशाचेन मत्सुता लक्षणैर्युता
तदा प्रोक्तस्तया पुत्र्या मा तात विमना भव
न पिशाचेन यक्षेण तव कन्या महीपते
प्राग्ज्योतिषे पुरे विप्रो हरस्वामी बभूव ह
रूपयौवनसंपन्ना तस्य नाहं प्रिया विभो
नान्यस्य कस्यचिद्द्वेष्टा मुक्त्वा मां पृथिवीपते