न कश्चिद्भाषते किंचिन्न कश्चिद्वीक्षते तदा
मम चित्तमविज्ञाय गणानामनुकंपया 5.2.77.
इह स्थास्यंति सततं त्वत्समीपे न संशयः
हीनां रजोऽधिकां दीनां तमोबहुलधारिणीम्
ब्रुवन्नेवं भ्रमेणैव भाव्यर्थेन प्रणोदितः
पत त्वं मानुषे लोके यस्मान्मे विप्रियं कृतम्
विप्रस्य पुत्रतां तूर्णं पुत्र गच्छ ममाज्ञया
इत्युक्तो वीरको देवि गतो विप्रस्य पुत्रताम्
पश्चात्तापेन संयुक्तो निश्वस्य च पुनःपुनः
प्रभूणामेकचित्तेन ते भृत्या दुर्लभाः स्मृताः
प्रसन्नास्त्रिदशास्तेषां प्रभु भक्ताश्च ये नराः
न ज्ञेयः केन तत्त्वेन दुराराध्यः प्रभुर्भवेत् 5.2.77.
विनश्यंत्युपकाराणि तस्मात्सेवा सुदुष्करा
तस्माद्यत्नेन संसेव्या आत्मरक्षणतत्परैः
कांस्तु लोकान्गमिष्यामि कलुषी भूणहा इव उवाच दीनया वाचा प्रणिपत्य पुनःपुनः
दीनोऽस्मि ज्ञानहीनोऽस्मि प्रणतोऽस्मि च शंकर
न हि निर्वहणं यांति प्रभूणामाश्रिता रुषः
अपि कीट पतंगत्वं गच्छेयं तव शासनात
इति तस्य वचः श्रुत्वा पुष्पदंतस्य पार्वति
गच्छ पुत्र ममादेशान्महाकालवनं शुभम्
कीर्त्तिस्ते भविता पुत्र यावदाभूतसंप्लवम् ।। इत्युक्ते तु त्वया देवि मयाप्युक्तं वरानने
न मे मिथ्या वचः पुत्र भविष्यति कथंचन 5.2.77.
विमाने पुष्पपादे तु समारूढो भविष्यसि
गणैः सार्द्धं मया चैव मुदितो विचरिष्यसि
अहं तत्रागमिष्यामि महाकालवने शुभे
अनया शुद्धया भक्त्या लोकानामुपकारकः
इत्युक्तो हि मया देवि पुष्पदंतो गणाग्रणीः
लिंगमाराधयामास दुर्वासेशादथोत्तरे त्वन्नाम्ना ख्यातिमेष्यामि प्रसादस्ते कृतोऽधुना
एतस्मिन्नन्तरे देवि त्वया सार्द्धमहं गतः
हृष्टस्तु पुष्पदंतोऽपि पुष्पपट्टासने शुभे