व्यालेंद्रा व्याकुलीभूता लुलिताश्चाचलेश्वराः
अयोनिजः शिनिर्विप्रः पुत्रमिच्छत्ययोनिजम् 5.2.77.
त्वं तपस्त्वं परं धाम शिखिचंद्रार्कलोचन
सुरासुरगुरो किं न पुत्रमस्मै प्रयच्छसि
शिनेः पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव
तेजांसि ज्योतिषामेव महतां च विधिस्थितः
त्वद्भक्तस्य च देवेश व्यर्थः कस्मात्परिश्रमः
त्वत्परस्य न देवश युक्ता दुःखविभीषिका
विप्रार्थमनुकंपार्थं पुत्रार्थं च विशेषतः
रुद्राश्च हरभक्ताश्च कूष्मांडा गगनेचराः
अन्ये च विविधाकाराः कालास्या हरिपिंगलाः
नीलग्रीवा कृष्णमुखाः पिंगधौतजटासटाः 5.2.77.
घंटाकर्णो विशाखश्च परिशेषा गणाश्च ये
शूलचंद्रधराः सर्वे सर्वे तुल्यपराक्रमाः
स्तुवंतो विविधैः स्तोत्रैरूचुरेवं समाहिताः
गणानां वचनं श्रुत्वा ज्ञात्वा भक्तिं च तादृशीम्
पुत्रार्थं तप्यति तपः शिनिर्ब्राह्मणसत्तमः
तस्याहं संप्रदास्यामि सर्वान्कामा न्यथेप्सितान्
मद्वाक्यं क्रियतां सद्यो विप्रः क्लेशाद्विमुच्यताम्
मदीयं वचनं श्रुत्वा सर्वे कंपितकंधराः
न कश्चिद्भाषते किंचिन्न कश्चिद्वीक्षते तदा
मम चित्तमविज्ञाय गणानामनुकंपया 5.2.77.
इह स्थास्यंति सततं त्वत्समीपे न संशयः
हीनां रजोऽधिकां दीनां तमोबहुलधारिणीम्
ब्रुवन्नेवं भ्रमेणैव भाव्यर्थेन प्रणोदितः
पत त्वं मानुषे लोके यस्मान्मे विप्रियं कृतम्
विप्रस्य पुत्रतां तूर्णं पुत्र गच्छ ममाज्ञया
इत्युक्तो वीरको देवि गतो विप्रस्य पुत्रताम्
पश्चात्तापेन संयुक्तो निश्वस्य च पुनःपुनः
प्रभूणामेकचित्तेन ते भृत्या दुर्लभाः स्मृताः