दृष्ट्वारुणं सुदुःखार्त्तं विलपंतं पुनः पुनः
अरुणोऽयमहो रौति कश्यपस्यात्मसंभवः
उत्पादितोऽयमल्पाहैरर्द्धकायो महाबलः मोहेन विलपंतं च श्रेयो मे भविता धुवम् 5.2.76.
इति संचिंत्य मनसि वाक्यैर्मध्वमृतोपमैः
तात कश्यपदायाद विनतागर्भसंभव
भाविनोऽर्था भवंतीह दुःखस्य च सुखस्य च
यदि तेस्ति घृणा चित्ते शप्तात्मजननी त्वया
उत्तरे देवदेवस्य यात्रेशस्य च पुण्यदम्
अरुणस्त्वेवमुक्तस्तु नारदेन महात्मना
ददर्श तत्र तल्लिंगं तेजःकूटोपमं शुभम्
लिंगेनोक्तोऽरुणो देवि सारथ्यं कुरु सर्वदा
मया दत्तं तु सामर्थ्यं सूर्यस्य पुरतः सदा
त्वन्नाम्ना त्रिषु लोकेषु ख्यातोऽहमरुणेश्वरः 5.2.76.
ये मां पश्यंति सततं त्वन्नाम्ना चारुणेश्वरम्
मोदिष्यंति कुलैः सार्द्धं पितृमातृसमुद्भवैः
न दुःखं जायते तेषां ये पश्यंति रवेर्द्दिने
यः पश्यति चतुर्दश्यां कृष्णायामरुणेश्वरम्
स नेष्यति पितॄन्स्वर्गे नरकस्थान्न संशयः शुंडीरस्वामिनो यात्रा कृता तेन न संशयः
इत्युक्तस्तेन लिंगेन विनतानंदनस्तदा
अस्य लिंगस्य माहात्म्यात्कश्यपस्यात्मसंभवः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽरुणेश्वरमाहात्म्यवर्णनंनाम षट्सप्ततितमोऽध्यायः
यस्य दर्शनमात्रेण गर्भवासो न जायते
शिनिर्नाम द्विजो देवि स चापुत्रोऽभवत्पुरा
वायुभक्षोंऽबुभक्षश्च निराहारोर्ध्वबाहुकः
एवमादीनि चान्यानि तपांसि श्रेयसे परम्
परं विघ्नोपशांत्यर्थं तोषयिष्येऽहमी श्वरम् आभ्यां न स दुरासाद्यो नापराधो भविष्यति
तथा चकार स मुनिर्वर्षाणां द्वादशैव हि
विज्ञप्तोहं त्वया देवि मंदरे चारुकंदरे
तेजसा दीपयच्छैलं शोषयन्सलिलाशयान्