अत्र स्नानेन विधिवत्पापात्मानोऽपि जंतवः निवसंति ब्रह्मलोके यावदाभूतसंप्लवम्
अत्र दानेन होमेन यथाशक्त्या सुरोत्तमाः
ममास्मिन्सरसि श्रीमाञ्जायते स्नानतो नरः
सर्वयज्ञसमं स्याद्वै महापातकनाशनम्
अस्मिन्कुण्डे च सांनिध्यं भविष्यति सदा मम
यात्रा भविष्यति सदा सुराः सांवत्सरी मम
स्वर्णं चैव सदा देयं वासांसि विविधानि च
अन्तर्दधे सुरैः सार्द्धं तीर्थं दृष्ट्वा तपोधन
तदाप्रभृति तत्कुण्डं विख्यातं परमं भुवि 2.8.2.
सूत उवाच इत्युक्त्वा स तपोराशिरगस्त्यः कुंभसंभवः
ऋणमोचनसंज्ञं तु सरयूतीरसंगतम्
ब्रह्मकुण्डान्मुनिवर धनुःसप्तशतेन च
तत्र पूर्वं मुनिवरो लोमशो नाम नामतः
ततः स ऋणनिर्मुक्तो बभूव गतकल्मषः
पश्यन्त्वेतस्य महतो गुणांस्तीर्थवरस्य वै
यत्र स्नानेन जंतूनामृणनिर्यातनं भवेत्
ऐहिकं पारलौकिक्यं यदृणत्रितयं नृणाम्
सर्वतीर्थोत्तमं चैतत्सद्यः प्रत्ययकारकम्
तस्मादत्र विधानेन स्नानं दानं च शक्तितः 2.8.2.
स्नातव्यं च सुवर्णं च देयं वस्त्रादि शक्तितः
अगस्त्य उवाच इत्युक्त्वा तीर्थमाहात्म्यं लोमशो मुनिसत्तमः
इत्येतत्कथितं विप्र ऋणमोचनसंज्ञकम् ऋणमोचनतीर्थं तु पूर्वतः सरयूजले
धनुर्द्विशत्या तीर्थं च पापमोचनसंज्ञकम् जायते तत्क्षणादेव नात्र कार्या विचारणा
मया तत्र मुनिश्रेष्ठ दृष्टं माहात्म्यमुत्तमम्
पांचालदेशसंभूतो नाम्ना नरहरिर्द्विजः
नाना विधानि पापानि ब्रह्महत्यादिकानि च
स कदाचित्साधुसंगात्तीर्थयात्राप्रसंगतः
पापमोचनतीर्थे तु स्नातः सत्संगतो द्विजः
दिवः पपात तन्मूर्ध्नि पुष्पवृष्टिर्मुनीश्वर 2.8.2.
तद्दृष्ट्वा महदाश्चर्यं मया च द्विजपुंगव