प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया
एवं शप्त्वा ततो देवि विनतां मातरं स्वकम्
हाहा मया नृशंसेन माता स्वजननी स्वका माता देहारणिः पुंसां माता दुःखसहा परा ।।5.2.76.
गर्भक्लेशे परं दुःखं माता जानाति यादृशम्
गुरूणामेव सर्वेषां माता गुरुतरा स्मृता
यदि पिंडप्रदानं तु गयायां कुरुते सुतः न च मातृविहीनस्य ममत्वं कुरुते पिता
विकलो मातृहीनस्तु पुत्रो हि प्रोच्यते तदा तदा शून्यं जगत्सर्वं यदा माता वियुज्यते
सोऽहं पापसमाचारो जातो मातृविहिंसकः
जातोऽहं विकलांगस्तु प्राक्कृतेनैव कर्मणा
एवं विलपतस्तस्य कश्यपस्य सुतस्य च
दृष्ट्वारुणं सुदुःखार्त्तं विलपंतं पुनः पुनः
अरुणोऽयमहो रौति कश्यपस्यात्मसंभवः
उत्पादितोऽयमल्पाहैरर्द्धकायो महाबलः मोहेन विलपंतं च श्रेयो मे भविता धुवम् 5.2.76.
इति संचिंत्य मनसि वाक्यैर्मध्वमृतोपमैः
तात कश्यपदायाद विनतागर्भसंभव
भाविनोऽर्था भवंतीह दुःखस्य च सुखस्य च
यदि तेस्ति घृणा चित्ते शप्तात्मजननी त्वया
उत्तरे देवदेवस्य यात्रेशस्य च पुण्यदम्
अरुणस्त्वेवमुक्तस्तु नारदेन महात्मना
ददर्श तत्र तल्लिंगं तेजःकूटोपमं शुभम्
लिंगेनोक्तोऽरुणो देवि सारथ्यं कुरु सर्वदा
मया दत्तं तु सामर्थ्यं सूर्यस्य पुरतः सदा
त्वन्नाम्ना त्रिषु लोकेषु ख्यातोऽहमरुणेश्वरः 5.2.76.
ये मां पश्यंति सततं त्वन्नाम्ना चारुणेश्वरम्
मोदिष्यंति कुलैः सार्द्धं पितृमातृसमुद्भवैः
न दुःखं जायते तेषां ये पश्यंति रवेर्द्दिने
यः पश्यति चतुर्दश्यां कृष्णायामरुणेश्वरम्
स नेष्यति पितॄन्स्वर्गे नरकस्थान्न संशयः शुंडीरस्वामिनो यात्रा कृता तेन न संशयः
इत्युक्तस्तेन लिंगेन विनतानंदनस्तदा
अस्य लिंगस्य माहात्म्यात्कश्यपस्यात्मसंभवः