अद्यप्रभृति देवोऽयं वडलेश्वरसंज्ञकः
पूजयिष्यंति ये देवं वडलेश्वरसंज्ञकम्
दृष्टो हरति पापानि स्पृष्टो राज्यं प्रयच्छति
कार्त्तिके शुक्लपक्षस्य तिथिर्वै द्वादशी भवेत् 5.2.75.
दानं तैः सततं दत्तं ते यांति परमं पदम्
तपस्तप्तं भवेत्तैस्तु ते मुक्ता नात्र संशयः
गाणपत्या भविष्यंति शंकरस्य सदा प्रियाः जायंते मानवा लोके वडलेश्वरदर्शनात्
गर्भवासे महाकष्टे यस्य वासो न रोचते
न लिंगेन विना सिद्धिर्दुर्लभं परमं पदम्
लिंगार्चन विहीनानां सिद्धिश्चापि सुदुर्लभा
इत्युक्त्वा मणिभद्रोऽपि सुतेन सहितो ययौ
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे वडलेश्वरमाहात्म्यवर्णनं नाम पंचसप्ततितमोऽध्यायः
विद्धि पापहरं देवि दर्शनात्कामदं नृणाम्
पुरा देवयुगे देवि प्रजापतिसुते शुभे
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता तथा
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः
हर्षादभ्यधिकां प्रीतिं प्रापतुः स्म वरस्त्रियौ
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले
तस्यै भर्त्ता वरं प्रादाल्लप्स्यसे पुत्रकोत्तमौ
यथा च प्रार्थितं लब्ध्वा वरं तुष्टाऽभवत्तदा
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम्
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् जनयामास चार्वंगी द्वे चांडे विनता तदा ।। 5.2.76.
तयोरंडानि निदधुः प्रहृष्टाः परिचारिकाः
ततः पंचशते काले कद्रूपुत्रा विनिर्गताः
ततः पुत्रार्थिनी देवी व्रीडिता सा तपस्विनी
पूर्वार्द्धकायसंपन्नमितरेणा प्रकाशितम्
योऽहमेवं कृतो मातस्त्वया लोभपरीतया
पंचवर्षशतान्यस्या यया विस्पर्द्धसे सदा
यद्येनमपि मातस्त्वं मामिवांडविभेदनात्