एवं स राक्षसैर्घोरैर्वडलो विनिवारितः
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः
गृह्णीत बध्नीत निकृन्ततैनं पिबाम खादाम च वृत्तहीनम्
ततः स गुर्वीं यमदण्डकल्पां महागदां कांचनपट्टनद्धाम् 5.2.75.
ते तस्य वीर्यं च वलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव
विदार्यमाणास्तत एव तूर्णमाकाशमास्थाय विमूढसंज्ञाः
स शक्रवद्दानवदैत्यसंघान्विक्रम्य जित्वा मदनाभितप्तः
ततस्तु ते रक्षपालाः समेत्य धनेश्वरं वै वडलेन नुन्नाः
तेषां तु वचनं श्रुत्वा मणिभद्रो महायशाः
यस्मात्सा नलिनी रम्या सेविता वडलेन तु
तस्मात्पुत्रो मदीयस्तु सर्वभागविवर्जितः
इति शप्तस्तदा जातो वडलो भोगवर्जितः
पीडितः क्षयरोगेण न शशाक विचेष्टितुम्
चिंतयामास सहसा शापमत्यद्भुतं महत् 5.2.75.
कथं शप्तोऽस्मि तातेन मणिभद्रेण वल्लभः
धन्योऽसौ मणिभद्रोऽपि मत्तातो येन भूतले
वडलेन पुनः प्रोक्तं धन्योऽहं प्रभुकारणात्
अन्यायेन यथाकामं प्रारब्धः संचितश्चिरम्
एवं विलपतस्तस्य वडलस्य वरानने ददर्श पुत्रं पंग्वंधं क्षयरोगप्रपीडितम्
निःश्वसंतं सुदुःखार्त्तं विल पंतं पुनःपुनः मया कुपित्रा हा वत्स शप्तस्त्वं प्रभुकारणात्
त्वयेयं नलिनी रम्या धन दस्यातिवल्लभा
तस्मात्पुत्र मया शप्तो न मिथ्या स भविष्यति
स्वाम्यर्थे यः प्रियान्प्राणान्परित्यजति संगरे
न मन्त्रसाध्यः शापोयं नौषधेन व्रतेन च 5.2.75.
मया श्रुतं शक्रलोके पुराणं स्कंदकीर्त्तितम्
प्रभावो वर्णितस्तेन महाकालवनस्य च
विद्यते व्याधिशमनं रूपसौभाग्यदायकम्
इत्युक्त्वा मणिभद्रेण समानीतः सुतस्तदा
स्पर्शनात्तस्य लिंगस्य चक्षुष्मान्रूपवान्बली
दृष्ट्वा सुमहदाश्चर्यं मणिभद्रेण पार्वति चक्षुष्मान्वडलो जातो लिंगस्यास्य प्रभावतः