अतीव राजते देव स्थलोऽयं तव सन्निधौ
राजस्थलेश्वरोऽसि त्वं विख्यातो भुवनत्रये
अत्रागत्य च यो देव भक्त्या परमया युतः ५५ |॥ तस्य त्वया प्रदातव्यं सर्वं मनसि चिंतितम् । अणिमादिगुणाः सर्वे गुटिकासिद्धिरंजनम्
खड्गं च पादुकां चैव जलवासं रसायनम्
दशम्यां तु विशेषेण कृत्वा नियमपूर्वकम्
पूजनीयस्तु त्रिदिवैर्यथा देवः पुरंदरः
तस्य श्रीर्विजयश्चैव भवत्येव वरो मम 5.2.74.
वृद्धिर्भवतु वंशे च दर्शनात्तव शंकर तिष्ठंतु सागराः सर्वे तव देव समीपतः
इत्युक्तोऽहं तदा तेन मया चोक्तं वरानने
पुत्रार्थं भार्यया सार्द्धं तदा दास्यामि वांछितम्
तस्याराधनतो भूप पुत्रं दास्यामि शोभनम् तेषां मनोरथावाप्तिर्भविष्यति न संशयः
राजा रिपुंजयो भक्त्या गणाधीशः कृतो मया
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये राजस्थलेश्वरमाहात्म्यवर्णनंनाम चतुःसप्ततितमोऽध्यायः
विद्धि पापहरं देवि दर्शनात्कामदं नृणाम्
धनदस्य सखा देवि मणिभद्रो बभूव ह
रूपवान्सर्वदा कामी सदा मत्तो बलाधिकः
रत्यर्थं कामसेवार्थं गुप्तां रहसि निर्मिताम्
तां वै विद्रुमसंछन्नां मुक्तादामविरा जिताम्
कुबेरभवनाभ्याशे वल्लभां धनदस्य च
राक्षसैः किंनरैश्चैव गुप्तां खङ्गधरैः सदा
प्रियया सहितो रेमे स्थाने गुप्ते मनोहरे
तत्र गुप्ता रणे शूरा राक्षसा रणकोविदाः
ते तु दृष्ट्वैव वडलं मणिभद्रसुतं प्रिये 5.2.75.
केतकीगर्भपत्राभैर्दंतैर्दिव्यतराननम्
भार्यासहायमुन्मत्तं पर्यंके च स्थितं सदा
मा वीरानेन मार्गेण सभार्यो गन्तुमर्हसि
देवा देवर्षयो यक्षा गन्धर्वाः किंनरास्तथा
नेह शक्यं विनादेशाद्विहर्तुं क्रीडितुं चिरम्
येनकेनचिदन्यायादवमन्य धनेश्वरम्