तथा मायां त्वमात्मीयां संदर्शयितुमीहसे
आदेशं प्रतिगृह्यैव समुपेतासि पार्वति
विधातव्यं तपः प्राप्तं स्थानेस्मिच्छिवकल्पिते
अन्यथापि जगद्रक्षा त्वदधीना जगन्मयि
निष्कलं शिवमत्यंतं ध्यायंत्यात्मन्यवस्थितम्
भक्तानां तव मुख्यानां तवैवाचारसंग्रहः
इति तस्या वचः श्रुत्वा गौरी सुस्थिरमानसा
विमुच्य विविधा भूषा रुद्राक्षगणभूषिता 1.3.1.4.
अलकैः सहसा शिल्पमनयच्च कपर्दृताम्
मृगेषु कृतसंतोषा शिलोंछीकृतवृत्तिषु
कृत्वा त्रिषवणं स्नानं कम्पा पयसि निर्मले
वृक्षप्ररोपणैर्दानैरशेषातिथिपूजनैः
ग्रीष्मे पंचाग्निमध्यस्था वर्षासु स्थंडिलेशया
पुण्यात्मनां महर्षीणां दर्शनार्थमुपेयुषाम्
कदाचित्स्वयमुच्चित्य वनांतात्पल्लवान्वितम्
कृत्वा च सैकतं लिंगं कंपारोधसि पावने
सूर्यमभ्यर्च्य विधिवद्रक्तैः पुष्पैश्च चंदनैः
धूपैर्दीपश्च नैवेद्यैर्भक्तिभावसमन्वितैः 1.3.1.4.
अथ देवः शिवः साक्षात्संशोधयितुमंबिकाम्
अतिवृद्धं प्रवाहं तं कम्पायाः समुपस्थितम्
उत्तिष्ठ देवि बहुलः प्रवाहोऽयं विजृंभते
इति तद्वचनं श्रुत्वा ध्यायंती मीलितेक्षणा
अचिंतयच्च सा देवी पूजाविघ्नसमाकुला
श्रेयः प्राप्तुमविघ्नेन प्रायः पुण्यात्मनां भुवि
सैकतं लिंगमतुलप्रवाहाल्लयमेष्यति
प्रवाहोऽयं समायाति शिवमायाविनिर्मितः
आलिंग्य सुदृढं दोर्भ्यामेतल्लिंगमनाकुलम्
इत्युक्ता सैकतं लिगं गाढमालिंग्य सांबिका 1.3.1.4.
स्तनचूचुकनिर्मग्नमुद्रादर्शितलांछनम्
निमीलितेक्षणा ध्याननिष्ठैकहृदया स्थिता