प्रजास्तत्सुखसंवृद्धा जरामृ त्युविवर्जिताः
यौवनस्थाश्च निर्द्वंद्वाः सततं धर्मसंश्रयाः
अकृष्टपच्या पृथिवी स्वादवद्भिः फलैर्युता
एवं व्रजति काले वै राज्ञि राज्यं प्रकुर्वति
प्रजानां बहुदुःखानि मुहुः कुर्वंत्यनेकशः
तथा संह्रियमाणेषु लोकेषु नृपसत्तमः
तेनैवाप्यायितो लोकः सुखी जातो यशस्विनि संवर्त्तो वारिदो भूत्वा मेघान्वै विन्यपातयत्
ततस्तु मारुतो भूत्वा नृपतिस्तामधारयत्
न यज्ञा न जपो होमो न च पक्तिरवर्त्तत 5.2.74.
ततः स राजा तं दृष्ट्वा त्वभवद्धव्यवाहनः
एतस्मिन्नंतरे देवि त्वया सार्द्धं समागतः
ततो देवगणाः सर्वे सकिंनरमहोरगाः
भूताः प्रेताः पिशाचाश्च ये चान्ये गगनेचराः
गंगा च यमुना सिंधुश्चंद्रभागा सरस्वती
विपाशा देविका पुण्या शरयूः कौशिकी तथा
पारा वेद स्मृतिश्चैव वेत्रघ्नी नर्मदा शिवा
पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ।। पृथुतीर्थोदकश्चैव तथैवामरकंटकः
गंगाद्वारः कुशावर्त्तो बिल्वको नीलपर्वतः
भृगुतुंगः सुकुक्षश्चाप्यजगंधश्च पार्वति 5.2.74.
स्थानानि च समस्तानि पुण्यान्यायतनानि च
मुनयो वालखिल्याश्च वेदाश्चत्वार एव च
अनंतरं मया मेरुः स्थलाकारः कृतस्ततः नियुक्ताः सागराः पार्श्वे चत्वारो लवणादयः
अथ व्याकुलतां प्राप्तः स च राजा रिपुंजयः
तेजसा दह्यमानोऽपि मदीयेन वरानने
स्थलेस्मिन्नृप राजाहं मयाप्युक्तं विनोदतः
तेनाहं सर्वतो दृष्टो वाङ्मये सचराचरे
प्रभावमतुलं दृष्ट्वा मदीयं व्यापकं परम् भूयःस्तुतोऽपि तेनाहं तुष्टो वै तस्य भूपतेः
भक्तिर्मे सुदृढा भूयात्त्वयि सर्वॆश शाश्वती। तुष्टोहं तेन वाक्येन पुनः प्रोक्तो मया नृप ॥ 5.2.74.
एवं भविष्यतीत्युक्त्वा पुनर्मां ब्रूहि पार्थिव । हृदि स्थितश्च ते कामः सर्वकालं भविष्यति
अधृष्यः सर्वेदेवानां सर्वदा संभविष्यसि