यः पश्यति नरो देवि करभेश्वरसंज्ञकम्
यदा कालादिहायातो राजराजेश्वरो महान्
न दुःखं जायते तस्य व्याधिशोकभयं तथा
सर्वमेधेषु यत्पुण्यं सर्वदानेषु यत्फलम्
व्याधयो नोपजायंते दारिद्र्यं न कदाचन
पशुयोनिगता ये च पितरो दुःखितास्तु ये
आगमिष्यति नः पुत्रो नप्ता वा संतताविह तेन दर्शनमात्रेण मुक्तिर्नो भविता ध्रुवम्।।5.2.73.
यो यमुद्दिश्य वै कामं दर्शनं तु करिष्यति
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते
विष्णुकल्पे पुरा वृत्ते मन्वंतरमुखप्रिये
न मनुष्यैर्विना देवाः समर्था लोकधारणे
योग्यो राजा प्रजापालः को भवेज्जनवत्सलः
पृथ्व्यां सर्वगुणाकीर्णं धर्मनिष्ठं महाव्रतम्
राज्यं च पाल्यतां वत्स एककल्पेन चेतसा
अलं ते तपसा तात कष्टेनानेन सांप्रतम्
क्रियतामधुना लोकपालनं तु ममाज्ञया
न धर्मस्तादृशोऽन्योऽस्ति न चान्योऽर्थस्य साधकः
नापकारेण भूतानामपि स्याद्भुवनेशता पृथ्वीं समुद्रवसनां प्रजाश्चैव प्रपालय ।। 5.2.74.
इत्युक्तः स तु राजर्षिर्ब्रह्मणा पर्वतात्मजे
स्वभावेनाचला पृध्वी त्वया पूर्वं विनिर्मिता
यद्यवश्यं मया पृध्वी पालनीया पितामह
मनुष्यलोके विख्याता सकले सामरावती
मर्यादामनुवत्तेंयुर्यदि मे नाकवासिनः अनेन विधिना पृथ्वीं पालयिष्याम्यहं प्रभो
ये केचित्त्रिदशाः संति मद्गौरववशेन ते
देवनाथेति वै नाम भविष्यति च सुव्रत
अथ राजा प्रतिज्ञाय ब्रह्मणा भूमिपालनम्
भवतां विहितः स्वर्गो मनुजानां च भूतलम्
ये स्थिता यांतु ते देवा मनुजानामियं धरा त्रिदशा ब्रह्मणो वाक्याद्गौरवात्त्रिदिवं गताः ।। 5.2.74.
अथ प्रजाः स नृपतिर्धर्मेणावर्धयत्तदा