महिषश्चित्तलो वापि शशो वा शंबरो वने
स प्रणष्टः क्षणेनैव सबाणो मम पश्यतः
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः भवंतः सुमहाभागास्तस्मात्पृच्छाभि संशयम्
क्व गतः करभो विद्धो मया बाणेन सांप्रतम्
ततस्तेषां समस्तानामृषीणामृषिसत्तमः
गतः स करभो भूप महाकालवने शुभे
यत्र देवो महादेवः कारभं रूपमास्थितः 5.2.73.
पश्चिमे क्षेत्रपालस्य कैलासस्य महीपते
ब्रह्मणा पूजितो राजन्देवानामर्थसिद्धये
तुरगेण कदाचित्तु नीतो बदरिकाश्रमम्
तत्र वीराजिनधरं कृशं विप्रं ददर्श ह दृष्ट्वा च हसितो विप्रस्तेन राज्ञा प्रमादतः
यस्माद्धससि मां दृष्ट्वा तस्मादुष्ट्रो भविष्यसि
इत्युक्तस्तेन विप्रेण शप्तोपि नृपसत्तमः
न मे वागनृता भूप कदा चिदपि विद्यते
यदा त्वं करभो जातो विद्धो वै वीरकेतुना
महाकालवनं दिव्यं तत्र त्वं लिंगदर्शनात्
स चेक्ष्वाकुकुलद्भूतो वीरकेतुर्महाबलः 5.2.73.
इत्युक्तो नृप भूपालः करभत्वं समागतः द्रक्ष्यसि त्वं विमानस्थं विमुक्तं लिंगदर्शनात्
इत्युक्तो नृपतिस्तेन ऋषभेण द्विजेन तु
ददर्श तत्र तल्लिंगं पूजितं त्रिदशैः सदा
विमानस्थेन या प्रोक्ता तूष्ट्रेण मधुरस्वरा
दर्शनादस्य लिंगस्य प्राप्ता मे परमा गतिः समीपमस्य लिंगस्य त्वं मे बंधुः परो यतः
इत्युक्त्वा स नृपं देवि वचः समधुराक्षरम्
ततो देवगणा व्योम्नि सकिंनरमहोरगाः
ब्रह्मेंद्रहरिमुख्याश्च विमानैर्देवि संस्थिताः
विलोक्य करभं मुक्तं विमानस्थं विराजितम्
अच्छरत्नसमूहेन मुकुटेनोज्वलत्विषा 5.2.73.
नाम चक्रुस्ततो देवा दृष्ट्वा माहात्म्यमुत्तमम्
तस्मात्त्रिष्वपि लोकेषु विख्यातः करभेश्वरः
इत्युक्त्वा त्रिदशाः सर्वे गताः स्वं धिष्ण्यमुत्तमम् समृद्धं निःसपत्नं च ततो राज्यं चकार सः