ये पश्यंति नरा भक्त्या चन्द्रादित्येचरं शिवम्
यावच्चन्द्रश्च सूर्यश्च तावत्तेषां सुखं भवेत्
चन्द्रसूर्योपरागे तु चंद्रादित्येश्वरं शिवम् 5.2.72.
तेषां कुलशतं यावत्पैतृकं मातृकं तथा
अमासोमसमायोगे ये पश्यन्ति प्रसंगतः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीति लिङ्गमाहात्म्य उमामहेश्वरसंवादे चद्रादित्येश्वरमाहात्म्यवर्णनंनाम द्विसप्ततितमोऽध्यायः
यस्य दर्शनमात्रेण कुयोनिर्नैव लभ्यते
वीरकेतुरभूद्धीमानयोध्याया महीपतिः
स सम्यक्पालयामास प्रजाः पुत्रानिवौरसान्
अथैकस्मिन्दिने राजा जगाम गहनं वनम्
स तत्र विविधान्वन्यान्विव्याध परवीरहा
लोडितं तद्वनं सर्वं पशुपक्षिमृगाकुलम्
यदा न श्वापदास्तस्मिन्दृश्यते गहने वने
स चापि करभो देवि बाणमादाय सत्वरम् स च राजा बली तूर्णं ससार करभं प्रति
ततो निम्नस्थलं चैव स चोष्ट्रोऽद्रवदाशुगः
ततः स राजा तारुण्या दौरसेन बलेन च 5.2.73.
ततो नदान्नदीश्चैव पल्वलानि वनानि च
स चापि करभो देवि आसाद्यासाद्य तं नृपम्
स तस्य बाणैर्बहुभिः करभो विह्वलीकृतः पुनश्च जवमास्याय पार्श्वे चाग्रे च दृश्यते
अथारण्यं महारौद्रं प्रविष्टः करभस्तदा
प्रविश्य च महारण्यं तापसानामथाश्रमम्
तं कार्मुककरं दृष्ट्वा श्रमार्त्तं क्षुधितं तदा
स पूजामृषिभिर्दत्तां प्रतिगृह्य यथाविधि
ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः
केन भद्र सुखार्थेन संप्राप्तोऽसि तपोवनम्
एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद 5.2.73.
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभः
इक्ष्वाकूणां कुले जातो वीरकेतुर्द्विजर्षभाः
बलेन महता युक्तः सामात्यः सपरिच्छदः