हतः स शंबरो दैत्यो गतौ तौ चन्द्रभास्करौ
राहुकेतू ग्रहांते तु कृतौ समयपूर्वकौ
स्वं स्वं स्थानं गताः सर्वे लोकपाला मुदा युताः 5.2.72.
गगने ग्रहनक्षत्रैः सहितौ विचरिष्यथः
इत्युक्तौ चन्द्रसूर्यौ तु तया वाण्या वरानने
एतस्मिन्नंतरे देवा विमानस्था समागताः
ज्ञात्वा लिंगस्य माहात्म्यं नाम चकुः समाहिताः
चन्द्रादित्येश्वरंनाम ख्यातिं यास्यति भूतले दग्धो भृत्यजनैः सार्द्धं चन्द्रसूर्यानुसेवनात्
इत्युक्त्वा त्रिदशाः सवें समीपे सर्वतः स्थिताः
चन्द्रादित्यौ च तत्रस्थौ स्थितौ लिंगसमीपतः
ये पश्यंति नरा भक्त्या चन्द्रादित्येचरं शिवम्
यावच्चन्द्रश्च सूर्यश्च तावत्तेषां सुखं भवेत्
चन्द्रसूर्योपरागे तु चंद्रादित्येश्वरं शिवम् 5.2.72.
तेषां कुलशतं यावत्पैतृकं मातृकं तथा
अमासोमसमायोगे ये पश्यन्ति प्रसंगतः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीति लिङ्गमाहात्म्य उमामहेश्वरसंवादे चद्रादित्येश्वरमाहात्म्यवर्णनंनाम द्विसप्ततितमोऽध्यायः
यस्य दर्शनमात्रेण कुयोनिर्नैव लभ्यते
वीरकेतुरभूद्धीमानयोध्याया महीपतिः
स सम्यक्पालयामास प्रजाः पुत्रानिवौरसान्
अथैकस्मिन्दिने राजा जगाम गहनं वनम्
स तत्र विविधान्वन्यान्विव्याध परवीरहा
लोडितं तद्वनं सर्वं पशुपक्षिमृगाकुलम्
यदा न श्वापदास्तस्मिन्दृश्यते गहने वने
स चापि करभो देवि बाणमादाय सत्वरम् स च राजा बली तूर्णं ससार करभं प्रति
ततो निम्नस्थलं चैव स चोष्ट्रोऽद्रवदाशुगः
ततः स राजा तारुण्या दौरसेन बलेन च 5.2.73.
ततो नदान्नदीश्चैव पल्वलानि वनानि च
स चापि करभो देवि आसाद्यासाद्य तं नृपम्
स तस्य बाणैर्बहुभिः करभो विह्वलीकृतः पुनश्च जवमास्याय पार्श्वे चाग्रे च दृश्यते