नश्यतां त्रिदशेंद्राणां पृष्ठतः शरवृष्टिभिः
वर्माणि च विचित्राणि मुकुटानि महांति च
गजाश्च मदसंभिन्नकपोलाः कोटिशः सुराः 5.2.72.
विबुधा ध्वस्तसन्नाहा विगजा विपदातिनः
ततो दैत्याधिपो मानी परिवृत्तो महारणात्
वंद्यमानो मुनिगणैः स्तूयमानो महर्षिभिः
तत्र सर्वर्द्धिसंपूर्णमासनं हेमभूषणम् तत्रोपविष्टः शुशुभे दैत्यराजो महायशाः
दिव्यचंदनपुष्टांगः सुरपुष्पसमुज्ज्वलः मृतोत्थितैस्तथा दैत्यैर्दैत्याधीशैरधिष्ठितः
क्रतुभिर्मूर्त्तिमद्भिश्च सेव्य मानो महाबलः
तत्र श्रीरतुला लोके तत्र लक्ष्मीर्निरर्गला
एवं स दैत्यनृपतिः सभृत्यस्तत्र मोदते
तयोरिति वचः श्रुत्वा स देवः पुरुषोत्तमः
चंद्रसूर्यौ मया ज्ञातं शंबरस्य विचेष्टितम् 5.2.72.
शंबराय पुरा क्षिप्तं वज्रं कुलिशपाणिना
गम्यतां च मयाज्ञप्तौ महाका लवनोत्तमे
तत्रानंतो महाकालो लिंगरूपो महेश्वरः
तस्य दर्शनमात्रेण कृतकृत्यौ भविष्यथः भविष्यति न संदेहस्तस्मात्तत्रैव गम्य ताम्
इत्युक्तौ वासुदेवेन चंद्रसूर्यौ यशस्विनि
तत्र दृष्ट्वा महादेवं तेजसो राशिमव्य यम्
एतस्मिन्नंतरे वाणी लिंगमध्यात्समुत्थिता
हतः स शंबरो दैत्यो गतौ तौ चन्द्रभास्करौ
राहुकेतू ग्रहांते तु कृतौ समयपूर्वकौ
स्वं स्वं स्थानं गताः सर्वे लोकपाला मुदा युताः 5.2.72.
गगने ग्रहनक्षत्रैः सहितौ विचरिष्यथः
इत्युक्तौ चन्द्रसूर्यौ तु तया वाण्या वरानने
एतस्मिन्नंतरे देवा विमानस्था समागताः
ज्ञात्वा लिंगस्य माहात्म्यं नाम चकुः समाहिताः
चन्द्रादित्येश्वरंनाम ख्यातिं यास्यति भूतले दग्धो भृत्यजनैः सार्द्धं चन्द्रसूर्यानुसेवनात्
इत्युक्त्वा त्रिदशाः सवें समीपे सर्वतः स्थिताः
चन्द्रादित्यौ च तत्रस्थौ स्थितौ लिंगसमीपतः