नमो लोकत्रयाध्यक्ष स्वप्रभाजितभास्कर
नमः सर्वक्रियाकर्त्रे जगत्त्रात्रे च ते नमः
नमः क्रमत्रयाक्रांतत्रैलोक्यांतर्हितोद्भव ।। 5.2.72.
नमो नाभिह्रदोद्भूतपद्मगर्भमहाप्रभो
अमरारिविनाशाय महासमरशालिने
चन्द्रसूर्यकृतं स्तोत्रं श्रुत्वा देवो जनार्दनः
विष्णुरुवाच स्वागतं चन्द्रसूर्यौ भो भवंतौ स्तुतिभाजनौ
नारायणेनैवमुक्तौ प्रोचतुश्चंद्रभास्करौ
न ज्ञाताः क्त्र गतास्ते च आवां नष्टौ प्रयत्नतः
शंबरेण जिता देवाः स च सर्वत्र दृश्यते
नश्यतां त्रिदशेंद्राणां पृष्ठतः शरवृष्टिभिः
वर्माणि च विचित्राणि मुकुटानि महांति च
गजाश्च मदसंभिन्नकपोलाः कोटिशः सुराः 5.2.72.
विबुधा ध्वस्तसन्नाहा विगजा विपदातिनः
ततो दैत्याधिपो मानी परिवृत्तो महारणात्
वंद्यमानो मुनिगणैः स्तूयमानो महर्षिभिः
तत्र सर्वर्द्धिसंपूर्णमासनं हेमभूषणम् तत्रोपविष्टः शुशुभे दैत्यराजो महायशाः
दिव्यचंदनपुष्टांगः सुरपुष्पसमुज्ज्वलः मृतोत्थितैस्तथा दैत्यैर्दैत्याधीशैरधिष्ठितः
क्रतुभिर्मूर्त्तिमद्भिश्च सेव्य मानो महाबलः
तत्र श्रीरतुला लोके तत्र लक्ष्मीर्निरर्गला
एवं स दैत्यनृपतिः सभृत्यस्तत्र मोदते
तयोरिति वचः श्रुत्वा स देवः पुरुषोत्तमः
चंद्रसूर्यौ मया ज्ञातं शंबरस्य विचेष्टितम् 5.2.72.
शंबराय पुरा क्षिप्तं वज्रं कुलिशपाणिना
गम्यतां च मयाज्ञप्तौ महाका लवनोत्तमे
तत्रानंतो महाकालो लिंगरूपो महेश्वरः
तस्य दर्शनमात्रेण कृतकृत्यौ भविष्यथः भविष्यति न संदेहस्तस्मात्तत्रैव गम्य ताम्
इत्युक्तौ वासुदेवेन चंद्रसूर्यौ यशस्विनि
तत्र दृष्ट्वा महादेवं तेजसो राशिमव्य यम्
एतस्मिन्नंतरे वाणी लिंगमध्यात्समुत्थिता