एवमुक्त्वा स्तुता गंगा यमुना च सरस्वती
देवाः प्रहृष्टाः शकाद्याः प्रयागेश्वरसंज्ञकम्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत्
शंबरेण पुरा देवि निर्जिताः संगरे सुराः
ग्रस्तं च राहुणा दृष्ट्वा शशांकं भयविह्वलम्
वहारुण रथं शीघ्रं यत्र युद्धं न विद्यते
राहुर्दंष्ट्राकरालस्तु स तृतीयो भयंकरः
स च न ज्ञायते शक्रः क्व गतो वरुणो रणे
एवमुक्तोऽरुणो रुग्णो रविणा रणमध्यतः
एतस्मिन्नंतरे चन्द्रः समायातस्तु तत्क्षणात्
संत्रस्तः स विलोलाक्षः क्षणमात्रमचेतनः
शंबरेण रणे रुद्धा रुद्राश्च भयविद्रुताः 5.2.72.
साध्याः सर्वे भयत्रस्ता गता यत्र न दानवाः
व्यधमत्सर्वगात्राणि वर्माणि च जनक्षये
पृष्ठतो निजघानाथ निकृत्ताश्च सहस्रशः
आसुरं रूपमास्थाय प्राणत्राणपरायणः
इत्युक्तं निशिनाथेन भयभीतेन पार्वति
यत्र देवो जगन्नाथो गरुडस्थो जनार्दनः
मंदरे सुरनारीणां नंदने वरचन्दने स्तुतिं तौ चक्रतुर्देवौ चन्द्रसूर्यौ यशस्विनि
नमो लोकत्रयाध्यक्ष स्वप्रभाजितभास्कर
नमः सर्वक्रियाकर्त्रे जगत्त्रात्रे च ते नमः
नमः क्रमत्रयाक्रांतत्रैलोक्यांतर्हितोद्भव ।। 5.2.72.
नमो नाभिह्रदोद्भूतपद्मगर्भमहाप्रभो
अमरारिविनाशाय महासमरशालिने
चन्द्रसूर्यकृतं स्तोत्रं श्रुत्वा देवो जनार्दनः
विष्णुरुवाच स्वागतं चन्द्रसूर्यौ भो भवंतौ स्तुतिभाजनौ
नारायणेनैवमुक्तौ प्रोचतुश्चंद्रभास्करौ
न ज्ञाताः क्त्र गतास्ते च आवां नष्टौ प्रयत्नतः
शंबरेण जिता देवाः स च सर्वत्र दृश्यते