अहमेव तपः सर्वं करिष्याम्यात्मनि स्थितः
त्वत्पादपद्मसंस्पर्शात्त्वत्तपोदर्शनादपि
कर्मभूमेस्त्वमाधिक्यहेतवे पुण्यमाचर
धर्मे दृढतरा बुद्धिं निबध्नीयान्न संशयः
त्वमेवैतत्सकलं प्रोक्ता वेदैर्देवि सनातनैः
या दिवं देवसंपूर्णा प्रत्यक्षयति भूतले 1.3.1.3.
देवाश्च मुनयः सर्वे वासं वांछंति संततम्
यत्र स्थितानां मर्त्यानां कम्पन्ते पापकोटयः
संपूर्णशीतलच्छायः प्रसूनफलपल्लवैः
गणाश्च विविधाकारा डाकिन्यो योगिनीगणाः
अहं च निष्कलो भूत्वा तव मानसपंकजे
इत्युक्ता देवदेवेन देवी कंपांतिकं ययौ
कंपां च विमलां सिन्धुं मुनिसमघनिषेविताम्
फलपुष्पसमाकीर्णं कोकिलालापसंकुलम्
कामाग्निपरिवीतांगी तपःक्षामेव साऽभवत्
कामशोकपरीतांगी पुरारिविरहाकुला ।। 1.3.1.3.
इममघहरमागतानिशं स्वयमपि पूजयितुं तपोभिरीशम्
कथमिव विरहः शिवस्य सह्यः क्षुभितधियात्र भृशं मनोभवेन
सांत्वयन्ती स्तुतिशतैरुपायैः शिवदर्शनैः
देवि त्वमविनाभूता सदा देवेन शंभुना
तथा मायां त्वमात्मीयां संदर्शयितुमीहसे
आदेशं प्रतिगृह्यैव समुपेतासि पार्वति
विधातव्यं तपः प्राप्तं स्थानेस्मिच्छिवकल्पिते
अन्यथापि जगद्रक्षा त्वदधीना जगन्मयि
निष्कलं शिवमत्यंतं ध्यायंत्यात्मन्यवस्थितम्
भक्तानां तव मुख्यानां तवैवाचारसंग्रहः
इति तस्या वचः श्रुत्वा गौरी सुस्थिरमानसा
विमुच्य विविधा भूषा रुद्राक्षगणभूषिता 1.3.1.4.
अलकैः सहसा शिल्पमनयच्च कपर्दृताम्
मृगेषु कृतसंतोषा शिलोंछीकृतवृत्तिषु