अपवादभयाद्भीता यदि त्वं देवि पुण्यदे
अवंती तु समाख्याता सप्त कल्पसनातनी
तस्यास्तीरे शुभं लिंगं दुर्द्धर्षेश्वरदक्षिणे
तस्य दर्शनमात्रेण कृतकृत्या भविष्यसि
इत्युक्ता सा त्रिपथगा नारदेन महात्मना
संश्लेषं च तदा कृत्वा लिंगं दृष्ट्वा सुपावनम्
अथ सूर्यसुता देवी यमुना पापनाशिनी
ददर्श देवी तां गंगां ध्यायंती शंकरं शिवम्
अथ तेनैव कालेन प्राचीदेवी सरस्वती 5.2.71.
एतस्मिन्नंतरे देवि शक्रं .प्राह स नारदः
गंगायमुनयोर्मध्ये यत्र गुप्ता सरस्वती
स सांप्रतं प्रयागस्तु महाकालवनोत्तमे
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः
स्तुवंतो विविधैः स्तोत्रैर्गंगां त्रिपथगां शुभाम्
वसूनां जननी देवि वसूनां मोक्षदायिनि
सेविता वालखिल्यैश्च कृष्णस्य परमा कला
सुता त्वं पाविनी देवि मार्त्तंडस्य दिवस्पतेः
प्राची त्वमेव विख्याता पुण्यदेहा सरस्वती सा त्वं शिप्रा प्रसिद्धा च सर्वपातकनाशिनी
त्वं दया सर्वजंतूनां स्वर्गः शरणं नृणाम् 5.2.71.
बहुजन्मकलंकांकं दृष्ट्वा या देहिनां भुवि
आसां च संगमो यस्तु स प्रयागो बुधैः स्मृतः
सोद्य प्रभृति देवोऽयं प्रयागेश्वरसंज्ञकः
अत्रागत्य प्रपश्यंति ये प्रयागेश्वरं ततः
कुलं च तारितं तेषां पैतृकं मातृकं तथा जायते नात्र संदेहः प्रयागेश्वरदर्शनात्
गंगायां च प्रयागे च देवदारुवने शुभे
त्र्यंबके धौतपापे च महेन्द्रे भैरवे तथा
एतेषां दर्शनेनैव या सिद्धिर्द्वादशाब्दिका
ये पश्यंति चतुर्द्दश्यामष्टम्यां च विशेषतः । भक्त्या च नियमं कृत्वा प्रयागेश्वरसंज्ञकम्
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि 5.2.71.
कलास्तिस्रो भविष्यंति लिंगेऽस्मिन्मोक्षदे शुभे