मा वधीः कस्य कासीति किं विध्वंसि सुतानिति
जीर्णस्तु मम वासोऽयं यथा मे समयः कृतः
अहं गंगा जह्नुसुता महर्षिगणसेविता
इमेऽष्टौ वसवो देवा महाभीमा महौजसः
तेषामानयिता नान्यस्त्वदृते भुवि विद्यते
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता
सैवमुक्त्वा तदा गङ्गा विष्णुमायाविमोहिता
अहो बत महत्कष्टं यदमी घातिताः सुताः
हा वत्सा हा सुताः पुत्रा हा तातास्तनयाः क्व वै 5.2.71.
मातर्मातेति करुणं ब्रुवाणाः स्वयमागता
कस्य जातु प्रणीतेन पिंगेन क्षितिरेणुना
अंगप्रत्यंगसंभूता मनोहृदयनंदनाः
काँल्लोकान्नु गमिष्यामि कृत्वा कर्म सुदारुणम्
इत्येवं करुणं कृत्वा रुदित्वा च पुनःपुनः
एतस्मिन्नंतरे देवि नारदो मुनिसत्तमः
विस्मयोप्फुल्लनयनः किमेतदिति चिंतयत्
समुद्रमहिषी दिव्या पुण्या त्रिपथगा नदी
इत्येवं चिंतयित्वा च समीपमगमन्मुनिः उवाचोच्चैर्वियत्स्थोऽसौ देवि गंगे नमोऽस्तुते
नारदोऽहं महापुण्ये कस्माद्रोदिषि पावनि 5.2.71.
धृता शिरसि देवेन शिवेन परमेष्ठिना
नारदस्य वचः श्रुत्वा दिव्या देवनदी तथा
मया नारद मोहेन कृतोऽधर्मो जुगुप्सितः
समुद्रेण वियोगस्तु संजातो मम दैवतः
अतो मया विलपितं मग्नया शोकसागरे
इति तस्या वचः श्रुत्वा नारदो मुनिसत्तमः
प्रतिज्ञातं त्वया देवि वसूनां मोक्षकारणे
प्राप्तास्ते वसवो लोकान्प्रसादात्तव सुव्रते
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः
सत्यमुक्तं त्वया ब्रह्मञ्ज्ञातं सर्वं मयाऽधुना 5.2.71.
अपवादभयाद्भीता भवंतं शरणं गता