हास्तिनेऽ भूत्पुरे श्रीमाञ्छंतनुर्नृपसत्तमः
स चाद्भुतमहावीर्यो वज्रसंहननो युवा
बलेन विष्णुसदृशस्तेजसा भास्करोपमः
स कदाचिन्महाबाहुः प्रभूत बलवाहनः
गत्वा तत्र मृगान्व्याघ्रान्घातयामास लीलया
स कदाचिद्वने तस्मिन्ददर्श परमां स्त्रियम्
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा
सा दृष्ट्वैव च राजानं विचरंतं महाद्युतिम्
तामुवाच ततो राजा सांत्वयञ्छ्लक्ष्णया गिरा 5.2.71.
यक्षी वा पन्नगी वा त्वं मानुषी वा सुमध्यमे
एतच्छ्रुत्वा वचो राज्ञः संस्तुतं मृदु वल्गु च
वारिता विप्रिये वापि त्यजेयं त्वामसंशयम्
एवमस्त्विति तेनोक्तं सत्येन सुकृतेन च
उपचारेण च रहस्तुतोष जगतीपतिः
मानुषं विग्रहं कृत्वा श्रीमंतं वरवर्णिनि
स राजा रति सक्तत्वादुत्तमस्त्रीगुणैर्हृतः
रममाणस्तया सार्द्धं यथाकामं नरेश्वरः
जातं जातं च सा पुत्रं क्षिपत्यंभसि मुक्तये
नास्य तत्तु प्रियं राज्ञः शंतनोर्ह्यभवत्तदा 5.2.71.
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव
मा वधीः कस्य कासीति किं विध्वंसि सुतानिति
जीर्णस्तु मम वासोऽयं यथा मे समयः कृतः
अहं गंगा जह्नुसुता महर्षिगणसेविता
इमेऽष्टौ वसवो देवा महाभीमा महौजसः
तेषामानयिता नान्यस्त्वदृते भुवि विद्यते
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता
सैवमुक्त्वा तदा गङ्गा विष्णुमायाविमोहिता
अहो बत महत्कष्टं यदमी घातिताः सुताः
हा वत्सा हा सुताः पुत्रा हा तातास्तनयाः क्व वै 5.2.71.
मातर्मातेति करुणं ब्रुवाणाः स्वयमागता