ब्रूहि मे भगवन्सम्यग्यदि तेऽस्ति दया मयि
तिस्रो भार्याः कथं विप्र पश्यामि पृथिवीतले कथं समागमो भूयो भविष्यति मया सह
इति तस्य वचः श्रुत्वा विप्रेणोक्तं वरानने
तस्मिन्क्षेत्रे तीर्थवरे लिंगं सर्वार्थसाधकम्
शिप्रायास्तु तटे रम्ये पुण्ये ब्रह्मेशपश्चिमे
कल्पस्य वचनं श्रुत्वा सत्वरो नृपसत्तमः
सांतःपुरपरीवारो महाकालवनं गतः
तत्र स्नात्वा जले पुण्ये शिप्रायाश्चाशुसिद्धिदे 5.2.70.
पूजयामास रत्नैश्च दिव्यैर्वस्त्रैः सुभूषणैः
मुक्ताफलैः सुतारैश्च जलधाराभिरेव च
शुश्राव श्रोत्रपीयूषं गीतं देवगृहे शुभे प्रियामपश्यत्तत्रस्थां लावण्यललनावधिम्
तां दृष्ट्वा विस्मयोत्फुल्ललोचनस्तन्मयोऽभवत्
ज्ञात्वा मे सैव पत्नीयं दृष्टा देवप्रसादतः
क्षिप्रं पुलिकिता तस्या विरराज कुचस्थली
विश्वावसोः सिद्धपतेः सुतैषा प्राणवल्लभा
आनीता ते मया पत्नी हत्वा तं राक्षसाधि पम्
इत्युक्तोऽसौ गतो देवि लब्ध्वा भार्यां प्रियां तदा
आराधितो नरेंद्रेण दुर्द्धर्षेण महात्मना त्रिषु लोकेषु विख्यातो वांछितार्थफल प्रदः ।। 5.2.70.
ये पश्यंति विशालाक्षि दुर्द्धर्षेश्वरसंज्ञकम्
संक्रांतौ रविवारे च ग्रहणे चंद्र सूर्ययोः ते प्रयांति विमानेन मदीयं स्थानमुत्तमम्
पापाचाराश्च ये जीवा दुष्कर्मनिरता नराः
दर्शनात्स्पर्शनात्सद्यो नामसंकीर्तनादपि
कृतघ्नो निंदको दुष्टः पापकर्मा दुरात्मवान् मुच्यते सर्वपापेभ्यो दुर्द्धर्षेश्वरदर्शनात्
अयने विषुवे चैव संप्राप्ते सोमपर्वणि गंगायास्त्रिगुणं पुण्यं जायते नात्र संशयः
तत्र यद्दीयते दानं तस्य संख्या न विद्यते
कल्पकोटिसहस्रं तु मत्पुरे पूजितो वसेत्
अधृष्यः शत्रुवर्गेण फलं प्राप्नोति चाक्षयम्
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.70.
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे दुर्द्धर्षेश्वरमाहात्म्यवर्णनंनाम सप्ततितमोऽध्यायः
अद्वितीयं विजानीहि महापातकनाशनम्