तिस्रस्तस्याभवन्भार्यास्तत्तुल्याः सुमनोहराः
कदा मृगरसाविष्टो देवाद्वै वातरंहसा
गजेंद्रमृगशार्दूलसिंहसंबरसंकुलम्
तस्मिन्वने सुविस्तीर्णं कदलीखंडमंडितम्
ददर्श दर्पणस्वच्छं सरो नीरजराजितम्
ददर्श कन्यां तत्रैव काननस्येव देवताम्
चित्रन्यस्त इव क्षिप्रमभूद्विस्मयनिश्चलः
कन्दर्पकोटिसदृशं विश्रान्तं नृपमब्रवीत् 5.2.70.
तपोरतस्य शांतस्य सर्वदा ब्रह्मचारिणः
इति तस्या वचः श्रुत्वा मन्मथेनाकुलीकृतः
मम प्राणव्ययः सुभ्रूस्त्वां विना समुपस्थितः
त्यज्यते प्राप्तममृतं यदेतद्बुद्धिलाघवम्
भज मामनवद्यांगि तवेतद्वदनामृतम्
स्वयं पिबामि चेद्विद्धि परलोकगतं हि माम्
भ्रष्टायां मयि तातस्य विनष्टे कन्यकाफले
यदि ते परमं प्रेम ममोपरि महीपते
तस्यास्तद्वचनं श्रुत्वा नान्यथा मे भविष्यति
गत्वा ययाचे प्रणतः स्थितं निजतपोवने 5.2.70.
तत्रैव संगतो राजा मन्मथेन वशीकृतः
कदलीखण्डकुञ्जेषु रम्यासु वनराजिषु सिषेवे चारु सुरतं स विदग्धोऽतिमुग्धया
एवं हि वसतस्तस्य दुर्द्धर्षस्य वरा नने
ज्वलितो विकटाकारो दंष्ट्रोत्कटकटाननः जहार मन्मथाविष्टो रूपयौवनशालिनीम्
राजा च तां हृतां दृष्ट्वा वियोगविषमूर्छितः
हा प्रिये प्रेमपीयूषे प्रणयामृतदीर्घिके
पुनरिन्दुमिवानंदं कदा द्रक्ष्यामि ते मुखम् उन्मत्त इव बभ्राम तत्र तत्र स्मरातुरः
एवं विलपतस्तस्य दुर्दर्षस्य नृपस्य तु ददर्श नृपतिं तत्र भ्रमंतं भ्रमरं यथा
ज्ञात्वा जामातरं सम्यक्समाश्वास्य वचोऽब्रवीत् क्व गतो हि महीपाल नेपालविषयस्तव
कुलीना रूपवत्यश्च तिस्रो भार्याः क्व वै गताः 5.2.70.
सर्वं विनश्वरं लोके गन्धर्वनगरोपमम्
एवमाश्वासितो राजा कल्पेन च पुनःपुनः