नियमेन तु यः पश्येत्तल्लिंगं संगमेश्वरम्
गांगं च सफलं पुण्यं यामुनं नामर्दं तथा।। । जायते चांद्रभागं च संगमेश्वरदर्शनात्
यः पश्येच्छ्रावणे मासि तल्लिंगं संगमेश्वरम्
मासि चाश्वयुजे देवं यः पश्येत्संगमेश्वरम् 5.2.69.
यः पश्येत्कार्त्तिके मासि तल्लिंगं संगमेश्वरम्।। । राजसूयसहस्रं तु कृतं तेन न संशयः
चतुरो वार्षिकान्मासान्यः पश्येत्संगमेश्वरम्
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनंनामैकोनसप्ततितमोऽध्यायः
यस्य दर्शनतो देवि नरः पापैः प्रमुच्यते
दुर्द्धर्षोनाम राजाभून्नेपालविषये पुरा
तिस्रस्तस्याभवन्भार्यास्तत्तुल्याः सुमनोहराः
कदा मृगरसाविष्टो देवाद्वै वातरंहसा
गजेंद्रमृगशार्दूलसिंहसंबरसंकुलम्
तस्मिन्वने सुविस्तीर्णं कदलीखंडमंडितम्
ददर्श दर्पणस्वच्छं सरो नीरजराजितम्
ददर्श कन्यां तत्रैव काननस्येव देवताम्
चित्रन्यस्त इव क्षिप्रमभूद्विस्मयनिश्चलः
कन्दर्पकोटिसदृशं विश्रान्तं नृपमब्रवीत् 5.2.70.
तपोरतस्य शांतस्य सर्वदा ब्रह्मचारिणः
इति तस्या वचः श्रुत्वा मन्मथेनाकुलीकृतः
मम प्राणव्ययः सुभ्रूस्त्वां विना समुपस्थितः
त्यज्यते प्राप्तममृतं यदेतद्बुद्धिलाघवम्
भज मामनवद्यांगि तवेतद्वदनामृतम्
स्वयं पिबामि चेद्विद्धि परलोकगतं हि माम्
भ्रष्टायां मयि तातस्य विनष्टे कन्यकाफले
यदि ते परमं प्रेम ममोपरि महीपते
तस्यास्तद्वचनं श्रुत्वा नान्यथा मे भविष्यति
गत्वा ययाचे प्रणतः स्थितं निजतपोवने 5.2.70.
तत्रैव संगतो राजा मन्मथेन वशीकृतः
कदलीखण्डकुञ्जेषु रम्यासु वनराजिषु सिषेवे चारु सुरतं स विदग्धोऽतिमुग्धया