इच्छता निधनं सद्यो मया प्रोक्तमिदं वचः
सुतेन भार्यया सार्द्धं संगमो दुर्लभः पुनः
कुटुंबार्थे करोत्येवमेकाकी निस्तरत्यसौ धर्मेण साध्यते सर्वं तस्माद्धर्मं समाश्रयेत्
इति चिंतयतोऽत्यर्थं मम प्राणा गताः प्रिये 5.2.69.
अंतकालेऽपि धर्मस्य प्रशंसा या मया कृता
त्वं च श्येनी ततो जाता तस्मिन्नेव वनोत्तमे
नदीत्रयरयेणैव निःसृतोऽहं जलात्ततः
आनीतोऽहं त्वया देवि संगमेश्वरसंनिधौ
म्रियमाणेन मे दृष्टो देवोऽसौ संगमेश्वरः
तस्य दर्शन मात्रेण जातोऽहं पृथिवीपतिः
सुता त्वं वल्लभा जाता कांचीपुरनिवासिनः
आवां राजत्वमापन्नौ तस्य लिंगस्य दर्शनात्
मध्याह्ने कदनं स्मृत्वा ततो मे शिरसि व्यथा
एतत्ते कथितं देवि पृष्टोऽहं यत्त्वया पुरा 5.2.69.
स्थातव्यं च मयात्रैव सेव्योऽसौ संगमेश्वरः
ततः सा निरवद्यांगी नीलोत्पलविलोचना
मयापि संस्मृतं देव पूर्वजन्मनि चेष्टितम्
प्राप्तावावां मनुष्यत्वं निर्मलेषु कुलेषु च
प्राप्ता भार्या प्रियाहं ते त्वं च प्राप्तो मया नृप
अस्य देवस्य माहात्म्याद्वियोगो न भविष्यति
पुनः प्रणम्य प्रणता सहसा मन्मथाकुला
तव देवप्रसादेन यदि त्वं संगमेश्वरः कांतां पिबन्निव दृशा प्राह तां तरलेक्षणाम्
सहजेनाभिजन्येन गुणैः कांत्या विभूषिता
ततस्तां भयसंत्रस्तां कंपिताधरपल्लवाम् 5.2.69.
वदन्कंदर्पसर्पेण दष्टोऽहं दैवतोऽधुना
पुरे मम वरारोहे चिरं रेमे तया सह
भेजे राज्यं तया सार्द्धं विस्तारितमहोत्सवः
अपूर्वत्यागिना तेन त्रैलोक्यं विस्मयं ययौ
भुक्त्वा च विपुलान्भोगांस्तस्मिँल्लिंगे लयं गतः
यः पश्येत्परया भक्त्या तल्लिंगं संगमेश्वरम्