यज्ञानां तपसां चैव दानानां चैव यत्फलम्
यदि पश्येच्चतुर्दश्यां वैशाखे कार्त्तिके तथा । तस्य पुण्यमसंख्यातं जायते नात्र संशयः
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.68.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे पिशाचेश्वरमाहात्म्यवर्णनंनामाष्टषष्टितमोऽध्यायः
ईश्वर उवाच। एकोनसप्ततिं देवि शृणु पार्वति यत्नतः
कलिंगविषये देवि सुबाहुर्नाम पार्थिवः
तस्य पत्नी विशालाक्षी दुहिता दृढधन्वनः
परस्परानुरागत्वात्परा प्रीतिरभूत्तयोः
आयुर्वेदविदां मुख्यैः शरीरस्य चिकित्सकैः
एवं बहुतरे काले गते देवि महीपतिम्
कथमेषा शिरोरोगे जरा ते पृथिवीपते प्रयतंतेऽस्य नाशाय तथाप्येष न शाम्यति
एवं स प्रियया प्रोक्तः सुबाहुः पृथिवीपतिः
सुखदुःखाश्रयं देवि शरीरं सर्वदेहिनाम्
इति संबोधिता राज्ञी तेन राज्ञा वरानने 5.2.69.
यदा सा वारितात्यर्थं पृच्छत्येव पुनःपुनः
यदि त्वं श्रोतुकामासि रोगस्यास्य समुद्भवम्
महाकालवनं गत्वा सिद्धगंधर्वसेवितम्
श्वः प्रभाते गमिष्यामि त्वया सार्द्धं शुचिस्मिते उत्सुका गमनार्थाय महाकालवनं शुभम्
अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः
आजगाम क्रमेणैव महाकालवनं शुभम्
पातालवाहिनी तत्र गंगा त्रिपथगामिनी
तासां च संगमस्तत्र तल्लिंगं संगमेश्वरम्
अथ प्राप्ते सुबाहौ च सा राज्ञी विस्मयान्विता यत्त्वयोक्तं पुरा देव कथयिष्यामि तत्र वै
एवमुक्तः सुबाहुस्तु प्रियया पृथिवीपतिः 5.2.69.
सुखं स्वपिहि भद्रांगि श्रांता वयमनिंदिते
अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः
अहमासं कुशूद्रस्तु सर्वदा वेदनिंदकः
पुत्रो जातस्तु दुःशीलो देवब्राह्मणवंचकः
अथ दीर्घेण कालेन द्वादशाब्दं भयावहा
वियोगस्तु त्वया प्राप्तो मया सार्द्धं सुतेन च