विश्वासघातका ये च परदाररताश्च ये
निंदंति ये पुराणानि धर्मशास्त्राणि सर्वदा
इति ते कथितं सर्वं वेदप्रामाण्यतोऽधुना ।। 5.2.68.
सोमको नाम शूद्रस्त्वं परमर्मप्रकाशकः
नास्तिको भिन्नमर्यादो जन्मन्यत्रापि सप्तमे
पिशाचयोनिं संप्राप्तः पुनः प्राप्स्यसि रौरवम् यंत्रपीडनकं रौद्रं मथनं कुम्भवालुकम्
इत्येवं वदतस्तस्य ब्राह्मणस्य यशस्विनि
दुःखाभिभूतो निश्चेष्टो धिग्धिगित्यसकृद्ब्रुवन्
अहो केनापि पुण्येन भवता सह दर्शनम्
नास्ति धर्मसमं मित्रं नास्ति धर्मसमा गतिः
मग्नोऽहं दुःखजलधौ मग्नोऽहं पापकर्दमे
नमस्तेऽस्तु महाभाग किं करोमि प्रशाधि माम्
एवं निगदतस्तस्य पिशाचस्य वरानने 5.2.68.
पृथिव्यां यानि तीर्थानि आसमुद्रगतानि वै
महाकालवनं क्षेत्रं प्रलयेऽप्यक्षयं गतम्
ढुंढेश्वरस्य देवस्य दक्षिणे त्रिदशार्चितम् तस्य दर्शनमात्रेण पिशाचत्वात्प्रमोक्ष्यसे
तस्य तद्वचनं श्रुत्वा स पिशाचो वरानने
महाकालवने पुण्ये समीहितफलप्रदे
दर्शनात्तस्य लिंगस्य स पिशाचो वरानने
दिव्यं विमानमारूढो गतो लोके सनातने
दृष्ट्वा तन्महदाश्चर्यं माहात्म्यातिशयं श्रिये
पिशाचोपि गतः स्वर्गमस्य लिंगस्य दर्शनात्। अतो देवः स विख्यातो भविष्यति महीतले
ये पश्यंति नरा देवि पिशाचेश्वरसंज्ञकम् । तेषां हि पितरः सद्यो ये चापि निरये स्थिताः 5.2.68.
अश्वमेधस्य यज्ञस्य सम्यगिष्टस्य यत्फलम्
गयायां पिंडदानेन यत्पुण्यं समुदाहृतम्
ये पश्यंति चतुर्दश्यां पिशाचेश्वरसंज्ञकम्
न वियोनिं नरो याति नरकं च न पश्यति
सर्वैश्वर्यसमायुक्तः सर्वबन्धुसमन्वितः
कीर्तनान्मुच्यते पापाद्दृष्ट्वा स्वर्गं च गच्छति
तदैव स नरो मुक्तः संसारनिगडादिभिः