उदयादित्यसंकाशो विभावसुसमद्युतिः
गतो ददर्श तं रौद्रं पिशाचं च भयावहम्
दृष्ट्वा तं शकटारूढं ब्राह्मणं शाकटायनम् 5.2.68.
तथारूपः पिशाचस्तु कर्णाभ्यां बधिरीकृतः तं धावंतं समालोक्य पिशाचं ब्राह्मणोऽब्रवीत्
पिशाच त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे
पिशाच उवाच शकटस्यास्य महतो घोषं श्रुत्वा भयंकरम्
ब्राह्मण उवाच पिशाचानां बलिष्ठाश्च श्रूयंते ब्रह्मराक्षसाः
पिशाच उवाच दुःखं हि मृत्युः सर्वेषां जीवितं च सुदुर्ल्लभम्
पैशाची कुत्सिता योनिः पापिनामेव जायते
तस्माज्जीवितुमिच्छामि प्रसीद ब्रह्मराक्षस
सर्वभूतहितार्थाय विचरामि महीतले
सर्वेषामेव जंतूनां मैत्रो ब्राह्मण उच्यते
तस्य तद्वचनं श्रुत्वा पिशाचः स्वस्थमानसः 5.2.68.
यदि ते सर्वभूतानां दत्ता ह्यभयदक्षिणा
पृच्छामि त्वां महाभाग संशयो हृदये स्थितः
केन कर्मविपाकेन पैशाचं याति मानवः
इति तस्य वचः श्रुत्वा पिशाचस्य वरानने
अपहृत्य च विप्रस्वं देवस्वं च विशेषतः
पितरं मातरं चैव स्त्रियं बालं द्विजं तथा
राजद्रव्यं गृहीत्वा तु न यजेन्न ददाति यः
विश्वासघातका ये च परदाररताश्च ये
निंदंति ये पुराणानि धर्मशास्त्राणि सर्वदा
इति ते कथितं सर्वं वेदप्रामाण्यतोऽधुना ।। 5.2.68.
सोमको नाम शूद्रस्त्वं परमर्मप्रकाशकः
नास्तिको भिन्नमर्यादो जन्मन्यत्रापि सप्तमे
पिशाचयोनिं संप्राप्तः पुनः प्राप्स्यसि रौरवम् यंत्रपीडनकं रौद्रं मथनं कुम्भवालुकम्
इत्येवं वदतस्तस्य ब्राह्मणस्य यशस्विनि
दुःखाभिभूतो निश्चेष्टो धिग्धिगित्यसकृद्ब्रुवन्
अहो केनापि पुण्येन भवता सह दर्शनम्
नास्ति धर्मसमं मित्रं नास्ति धर्मसमा गतिः