इत्युक्तोऽहं तदा देवि देवैः प्रणतिपूर्वकम्
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये केदारेश्वरमाहात्म्यवर्णनंनाम सप्तषष्टितमोऽध्यायः
शृणु देवि प्रयत्नेन दर्शनात्पापनाशनम्
आदौ कलियुगे देवि शूद्रो बहुधनोऽभवत्
अब्रह्मण्यो नृशंसश्च कदर्यो निरपत्रपः
त्रिवर्गहंता चान्येषामात्मकामानुवर्त्तकः
मरुदेशे पिशाचोऽभून्नग्नो दीनो भयावहः
बहवो मर्द्दितास्तेन पिशाचा बलवत्तराः
अथ तेनैव मार्गेण कदाचिच्छाकटायनः
उदयादित्यसंकाशो विभावसुसमद्युतिः
गतो ददर्श तं रौद्रं पिशाचं च भयावहम्
दृष्ट्वा तं शकटारूढं ब्राह्मणं शाकटायनम् 5.2.68.
तथारूपः पिशाचस्तु कर्णाभ्यां बधिरीकृतः तं धावंतं समालोक्य पिशाचं ब्राह्मणोऽब्रवीत्
पिशाच त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे
पिशाच उवाच शकटस्यास्य महतो घोषं श्रुत्वा भयंकरम्
ब्राह्मण उवाच पिशाचानां बलिष्ठाश्च श्रूयंते ब्रह्मराक्षसाः
पिशाच उवाच दुःखं हि मृत्युः सर्वेषां जीवितं च सुदुर्ल्लभम्
पैशाची कुत्सिता योनिः पापिनामेव जायते
तस्माज्जीवितुमिच्छामि प्रसीद ब्रह्मराक्षस
सर्वभूतहितार्थाय विचरामि महीतले
सर्वेषामेव जंतूनां मैत्रो ब्राह्मण उच्यते
तस्य तद्वचनं श्रुत्वा पिशाचः स्वस्थमानसः 5.2.68.
यदि ते सर्वभूतानां दत्ता ह्यभयदक्षिणा
पृच्छामि त्वां महाभाग संशयो हृदये स्थितः
केन कर्मविपाकेन पैशाचं याति मानवः
इति तस्य वचः श्रुत्वा पिशाचस्य वरानने
अपहृत्य च विप्रस्वं देवस्वं च विशेषतः
पितरं मातरं चैव स्त्रियं बालं द्विजं तथा
राजद्रव्यं गृहीत्वा तु न यजेन्न ददाति यः