कृतवांस्तद्भयार्थाय न च ते भीतिमागताः
न तैर्दृष्टो महादेवि यतोऽहं महिषाकृतिः उद्विग्ना निश्वसन्तश्च वैराग्यं परमं गताः
नात्र देवो न तीर्थानि न गंगा पुण्यदायिनी
एवं किल पुराणेषु श्रूयते सर्वदा श्रुतौ
एवं तु वदतां तेषां मानुषाणां यशस्विनि
अमार्गं मा वदत्वत्र न निंद्याः श्रुतयोऽव्ययाः 5.2.67.
ये निंदंति पुराणानि धर्मशास्त्राणि नास्तिकाः
सदा देवोत्र केदारः स्वर्गमोक्षप्रदायकः
करोति पूजां हिमवान्मासानष्टौ च शाश्वतान् सेव्यश्च रमणीयश्च सर्वतीर्थनमस्कृतः
सर्वरत्ननिधानश्च देवानां वल्लभस्तथा
नियतेनैव कालेन मानुषाणां च सर्वदा
आख्यास्ये तदुपायं च श्रूयतां सावधानतः
क्षेत्राणामुत्तमं क्षेत्रं भुक्तिमुक्तिप्रदायकम्
तत्राहं संभविष्यामि लोकानामनुकंपया
सोमेश्वरस्य देवस्य पश्चिमे स्थानमुत्तमम्
सर्वदा दर्शनं तत्र मया सार्द्धं भविष्यति 5.2.67.
इह यावत्फलं तस्माद्दास्यामि ह्यधिकं ततः आकाशादुत्थितां दिव्यां मनःप्रह्रादकारिकाम्
गता वनं महाकालं संस्मरन्तो महेश्वरम्
स्नात्वा शिप्राजले पुण्ये यावत्पश्यन्ति भास्करम्
अथ ते हर्षिताः प्रोचुः केदारोऽयं न संशयः
ततस्ते पूजयामासुः पुष्पैर्नानाविधैस्तथा
दुर्लभोऽतिवरो दत्तः कैलासे स्थानमुत्तमम्
अतोऽहं त्रिदशैः प्रोक्तः केदारेश्वरना मतः
इहागत्य नरा ये च त्वां पश्यंति सुभक्तितः
हिमाद्रौ हिमनाथस्य यात्रायाः प्रत्यहं फलम्
ब्रह्महा वा सुरापो वा स्ते यी वा गुरुतल्पगः 5.2.67.
सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम् तत्फलं समवाप्नोति केदारेश्वरदर्शनात्
ते नराः पशवो लोके तेषां जन्म निरर्थकम्
कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम्
हिमालयकृता यात्रा तस्याः प्रोक्तं च यत्फलम्