नाहं यातुं समर्थोऽस्मि सत्यमेतन्मयोदितम् महादेव मृते देवा गतिरन्या न विद्यते
स एव शरणं देवः सर्वेषां नो भविष्यति
कृता बुद्धिर्विचित्रा च हिमाद्रिश्च मया कृतः
हिमाचलस्य तस्यैव शास्ता देवो महेश्वरः
यत्र तिष्ठति विश्वात्मा देवदेवो महेश्वरः दृष्टोहं पूजितस्तैस्तु स्तुतोऽहं विविधैः स्तवैः
मया संमानिता देवाश्चतुवक्त्रः प्रपूजितः 5.2.67.१
किं कार्यं त्रिदशैः सार्द्धमागतोऽसि पितामह
हिमाचलं समाहूय मर्यादा च कृता मया
देवानां विषयाश्चैव गंधर्वाणां तथैव च
विद्याधराणां क्रीडार्थं पृथक्पृथङ्निवेशिताः
जाह्नवीनिर्झरोष्णीषः शर्वाणीजनकस्तथा
सर्वदेवमयो दिव्यः सर्वतीर्थमयः कृतः
एवं संस्थाप्य शैलेंद्रं लिंगमूर्त्तिरहं स्थितः
उदकं निर्मितं तत्र मंत्रपूर्णं मया प्रिये
योत्रागत्य नरो भक्त्या सम्यङ्मां पूजयिष्यति तस्योदरे भविष्यामि लिंगरूपी न संशयः
इत्युक्ते वचने देवि सदेवासुरपन्नगाः 5.2.67.
विद्याधरगणाश्चैव मम दर्शनलालसाः
दृष्टोऽहं विधिना तैस्तु लिंगमूर्त्तिगतः प्रिये जनलोकगतैः सिद्धैः पूज्यमाना वरानने
अथ कालेन बहुना श्रुत्वा माहात्म्यमुत्तमम्
मनुष्याः समुपायातास्ते रजोबहुला यतः
कृतवांस्तद्भयार्थाय न च ते भीतिमागताः
न तैर्दृष्टो महादेवि यतोऽहं महिषाकृतिः उद्विग्ना निश्वसन्तश्च वैराग्यं परमं गताः
नात्र देवो न तीर्थानि न गंगा पुण्यदायिनी
एवं किल पुराणेषु श्रूयते सर्वदा श्रुतौ
एवं तु वदतां तेषां मानुषाणां यशस्विनि
अमार्गं मा वदत्वत्र न निंद्याः श्रुतयोऽव्ययाः 5.2.67.
ये निंदंति पुराणानि धर्मशास्त्राणि नास्तिकाः
सदा देवोत्र केदारः स्वर्गमोक्षप्रदायकः
करोति पूजां हिमवान्मासानष्टौ च शाश्वतान् सेव्यश्च रमणीयश्च सर्वतीर्थनमस्कृतः
सर्वरत्ननिधानश्च देवानां वल्लभस्तथा