पिदधे लीलया शंभोः किमेतदिति कौतुकात्
अन्धकारोऽभवत्तत्र चिरकालं भयंकरः
देवीलीलासमुत्थेन तमसाभूज्जगत्क्षयः
शून्यं ज्योतिः प्रचारेण विनाशं प्रत्यपद्यत
नापि जीवाः समभवन्नव्यक्तं केवलं स्थितम्
तपसा लब्धस्फूर्तीनां विचारः समपद्यत 1.3.1.3.
भगवानपि सर्वात्मा न नूनं कालमाक्षिपत्
तेनेदमखिलं जातं निस्तेजो भुवनत्रयम्
का गतिर्लब्धराज्यानां तपसो देवजन्मनाम्
इति निश्चित्य मनसा वीक्ष्य ते ज्ञानचक्षुषा
नमः सर्वजगत्कर्त्रे शिवाय परमात्मने
अविनाभाविनी शक्तिराद्यैका शिवरूपिणी
अर्धांगी सा तव देव शिवशक्त्यात्मकं वपुः
लीलया तव लोकोयमकाले प्रलयं गतः
भवतो निमिषार्द्धेन तेजसामुपसंहृतेः
ततः प्रसीद करुणामूर्त्ते काल सदाशिव 1.3.1.3.
इति तेषां वचः श्रुत्वा भक्तानां सिद्धिशालिनाम्
विससर्ज च सा देवी पिधानं हरचक्षुषाम्
कियान्कालो गतश्चेति पृष्टैः सिद्धैश्च वै नतैः
अथ देवः कृपामूर्त्तिरालोक्य विहसन्प्रियाम्
अविचार्य कृतं मुग्धे भुवनक्षयकारणात्
अहमप्यखिलाँल्लोकान्संहरिष्यामि संक्षये
केयं वा त्वादृशी कुर्यादीदृशं सद्विगर्हितम्
इति शम्भोर्वचः श्रुत्वा धर्मलोपभयाकुला
अथ देवः प्रसन्नात्मा व्याजहार दयानिधिः
मन्मूर्तेस्तव केयं वा प्रायश्चित्तिरिहोच्यते 1.3.1.3.
श्रुतिस्मृतिक्रियाकल्पा विद्याश्च विबुधादयः
मान्ययाभिन्नया देव्या भाव्यं लोकसिसृक्षया
तस्माल्लोकानुरूपं ते प्रायश्चित्तं विधीयते
स्वामिना नानुपाल्येत यदि त्याज्योऽनुजीविभिः