तावत्पतंति संसारे घोरे दुःखशताकुले
यदा पापक्षयः पुंसां तदा ते दर्शनं भवेत्
एवं भविष्यतीत्युक्त्वा तेन लिंगेन पार्वति 5.2.66.
तस्मिँल्लिंगे लयं प्राप्ते नृपे जल्पे वरानने भुक्तिदो मुक्तिदश्चैव सदाभीष्टकरः स्मृतः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जल्पेश्वरमाहात्म्यवर्णनंनाम षदषष्टितमोऽध्यायः
सप्तषष्टिकसंख्याकं केदारेश्वरसंज्ञकम्
सृष्टिकाले पुरा देवि देवा व्याप्ता हिमेन हि
हिमाद्रिणार्दिताः सर्वे वयं देव जगत्पते
देवानां वचनं श्रुत्वा प्रोक्तं वै ब्रह्मणा प्रिये
नाहं यातुं समर्थोऽस्मि सत्यमेतन्मयोदितम् महादेव मृते देवा गतिरन्या न विद्यते
स एव शरणं देवः सर्वेषां नो भविष्यति
कृता बुद्धिर्विचित्रा च हिमाद्रिश्च मया कृतः
हिमाचलस्य तस्यैव शास्ता देवो महेश्वरः
यत्र तिष्ठति विश्वात्मा देवदेवो महेश्वरः दृष्टोहं पूजितस्तैस्तु स्तुतोऽहं विविधैः स्तवैः
मया संमानिता देवाश्चतुवक्त्रः प्रपूजितः 5.2.67.१
किं कार्यं त्रिदशैः सार्द्धमागतोऽसि पितामह
हिमाचलं समाहूय मर्यादा च कृता मया
देवानां विषयाश्चैव गंधर्वाणां तथैव च
विद्याधराणां क्रीडार्थं पृथक्पृथङ्निवेशिताः
जाह्नवीनिर्झरोष्णीषः शर्वाणीजनकस्तथा
सर्वदेवमयो दिव्यः सर्वतीर्थमयः कृतः
एवं संस्थाप्य शैलेंद्रं लिंगमूर्त्तिरहं स्थितः
उदकं निर्मितं तत्र मंत्रपूर्णं मया प्रिये
योत्रागत्य नरो भक्त्या सम्यङ्मां पूजयिष्यति तस्योदरे भविष्यामि लिंगरूपी न संशयः
इत्युक्ते वचने देवि सदेवासुरपन्नगाः 5.2.67.
विद्याधरगणाश्चैव मम दर्शनलालसाः
दृष्टोऽहं विधिना तैस्तु लिंगमूर्त्तिगतः प्रिये जनलोकगतैः सिद्धैः पूज्यमाना वरानने
अथ कालेन बहुना श्रुत्वा माहात्म्यमुत्तमम्
मनुष्याः समुपायातास्ते रजोबहुला यतः