देवदारुवनं त्यक्त्वा महाकालवनं गतः पूजयामास विधिवत्परमेण समाधिना
तत्र वाणी समुत्पन्ना लिंगमध्याद्वरानने पुत्राणां नृपविप्राणामदृष्टं तत्र कारणम्
विपाकेन स्वकीयेन गता वैवस्वतं पुरम् 5.2.66.
अनेन शुद्धभावेन तुष्टोऽहं नृपसत्तम
संसारसागरे घोरे मा भवेन्मम जन्म च
अक्षयां देहि मे कीर्त्तिं नाम्ना मे विश्रुतो भुवि
वदंतु त्रिदशाः सर्वे एष मे दुर्लभो वरः तेषां वियोगो मा भूयात्पुत्रतो धनतोऽपि वा
न संसारभयं तेषां दस्युतो नैव राजतः
शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः
सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः
तावत्पतंति संसारे घोरे दुःखशताकुले
यदा पापक्षयः पुंसां तदा ते दर्शनं भवेत्
एवं भविष्यतीत्युक्त्वा तेन लिंगेन पार्वति 5.2.66.
तस्मिँल्लिंगे लयं प्राप्ते नृपे जल्पे वरानने भुक्तिदो मुक्तिदश्चैव सदाभीष्टकरः स्मृतः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जल्पेश्वरमाहात्म्यवर्णनंनाम षदषष्टितमोऽध्यायः
सप्तषष्टिकसंख्याकं केदारेश्वरसंज्ञकम्
सृष्टिकाले पुरा देवि देवा व्याप्ता हिमेन हि
हिमाद्रिणार्दिताः सर्वे वयं देव जगत्पते
देवानां वचनं श्रुत्वा प्रोक्तं वै ब्रह्मणा प्रिये
नाहं यातुं समर्थोऽस्मि सत्यमेतन्मयोदितम् महादेव मृते देवा गतिरन्या न विद्यते
स एव शरणं देवः सर्वेषां नो भविष्यति
कृता बुद्धिर्विचित्रा च हिमाद्रिश्च मया कृतः
हिमाचलस्य तस्यैव शास्ता देवो महेश्वरः
यत्र तिष्ठति विश्वात्मा देवदेवो महेश्वरः दृष्टोहं पूजितस्तैस्तु स्तुतोऽहं विविधैः स्तवैः
मया संमानिता देवाश्चतुवक्त्रः प्रपूजितः 5.2.67.१
किं कार्यं त्रिदशैः सार्द्धमागतोऽसि पितामह
हिमाचलं समाहूय मर्यादा च कृता मया
देवानां विषयाश्चैव गंधर्वाणां तथैव च
विद्याधराणां क्रीडार्थं पृथक्पृथङ्निवेशिताः