मध्ये विक्रांतसंज्ञस्तु स्वपदे विनियोजितः
बभूवुर्मंत्रिणस्तेषां हिता वंशक्रमागताः
विक्रांतस्य च यो मंत्री विकल्पैकपरायणः
यस्यैषा पृथिवी कृत्स्ना स समर्थः प्रकीर्तितः 5.2.66.
त्रिदशैश्चामृतं लब्धमुद्यमेन महीपते
हीनोद्यमा मानवा ये क्षत्त्रियाश्च विशेषतः
स्नेहं च कुरुते भ्राता राज्यलुब्धोऽर्थकारणात् क्रियते न किमर्थं तु भूप मंत्रपरिग्रहः
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः
भूमिमेते निर्गिलंति सर्पा बिलशयानिव
मायया मोहितं सर्वं को वा कस्य च बांधवः
भ्रातृभिर्भ्रातरः सर्वे निहता राज्यकारणात्
इति मंत्रिवचः श्रुत्वा स राजा विस्मयान्वितः
अतुष्टाः पृथगैश्वर्यं कथं कृत्स्ना भविष्यति ।।5.2.66.
ज्येष्ठो भ्राता सुबाहुश्च द्वितीयः शत्रुमर्दनः
कनिष्ठज्येष्ठता केयं राज्यं प्रार्थयतां नृणाम्
तथेति च प्रतिज्ञाते विक्रांतेन महीभृता
अथर्वणेन मंत्रेण पुरोधाः प्रचकार ह
अथ कृत्या समुत्पन्ना पश्चात्कृत्याचतुष्टयम्
ततः समस्तलोकस्य विस्मयश्चाभवन्महान्
ततः श्रुत्वा च निधनं पुत्राणां जल्पको नृपः
तेनापि कथितं सर्वं वशिष्ठेन महात्मना
सार्द्धं त्वमात्यपुत्रैश्च मृतं ब्राह्मणपंचकम्
मत्तोऽन्यः कः पापरतो भविष्यति महान्भुवि 5.2.66.
ततस्ते न विनश्येयुर्मम पुत्रपुरोहिताः
कारणत्वं गतो योऽहं विनाशस्य द्विजन्मनाम् नाशं ययुर्न दुष्टास्ते दुष्टोऽहं नाशकारणे
इत्थमुद्विग्नहृदयः स जल्पः पृथिवीपतिः
राजोवाच भगवन्ब्रूहि मे तीर्थमवियोगकरं सदा
तस्य तद्वचनं श्रुत्वा जल्पस्य पृथिवीपतेः
गच्छ जल्प ममादेशान्महाकालवनोत्तमम् तत्र लिंगमनाद्यं च कुक्कुटेश्वरपश्चिमे
तदाराधय राजेंद्र जामदग्न्याश्रमे स्थितः