चांद्रायणानां विधिवद्दशानामेव यत्फलम्
इत्युक्त्वा गतवान्विष्णुर्वैकुंठं शाश्वतं प्रिये
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनाम पंचषष्टितमोऽध्यायः
यस्य दर्शनमात्रेण महापापं शमं व्रजेत्
जल्पोनाम महादेवि राजाभूद्भुवि विश्रुतः
विकल्पबहुलो नित्यं संसारगतिचिंतकः
तस्य राज्ञो वरारोहे मूर्ताः पंचाग्नयो यथा विक्रांतः पंचमः पुत्रः सर्वे शस्त्रास्त्रपारगाः
पित्रा जल्पेन ते राज्ञा पृथग्राज्ये प्रतिष्ठिताः
प्राच्यां सुबाहुर्नृपतिर्याम्यां वै शत्रुमर्दनः
मध्ये विक्रांतसंज्ञस्तु स्वपदे विनियोजितः
बभूवुर्मंत्रिणस्तेषां हिता वंशक्रमागताः
विक्रांतस्य च यो मंत्री विकल्पैकपरायणः
यस्यैषा पृथिवी कृत्स्ना स समर्थः प्रकीर्तितः 5.2.66.
त्रिदशैश्चामृतं लब्धमुद्यमेन महीपते
हीनोद्यमा मानवा ये क्षत्त्रियाश्च विशेषतः
स्नेहं च कुरुते भ्राता राज्यलुब्धोऽर्थकारणात् क्रियते न किमर्थं तु भूप मंत्रपरिग्रहः
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः
भूमिमेते निर्गिलंति सर्पा बिलशयानिव
मायया मोहितं सर्वं को वा कस्य च बांधवः
भ्रातृभिर्भ्रातरः सर्वे निहता राज्यकारणात्
इति मंत्रिवचः श्रुत्वा स राजा विस्मयान्वितः
अतुष्टाः पृथगैश्वर्यं कथं कृत्स्ना भविष्यति ।।5.2.66.
ज्येष्ठो भ्राता सुबाहुश्च द्वितीयः शत्रुमर्दनः
कनिष्ठज्येष्ठता केयं राज्यं प्रार्थयतां नृणाम्
तथेति च प्रतिज्ञाते विक्रांतेन महीभृता
अथर्वणेन मंत्रेण पुरोधाः प्रचकार ह
अथ कृत्या समुत्पन्ना पश्चात्कृत्याचतुष्टयम्
ततः समस्तलोकस्य विस्मयश्चाभवन्महान्
ततः श्रुत्वा च निधनं पुत्राणां जल्पको नृपः