उत्तरे च्यवनेशस्य शिवशक्तिसमन्वितम्
कुण्डेश्वरकरस्पर्शकारि वारि निरंतरम्
इति तस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः
स्तुतिं चकार सहसा दृष्ट्वा भक्त्या पितामहः 5.2.65.
नमोऽविषह्यवीर्याय नमो विश्वक्रियात्मने
नमः पिंगकपर्द्दाय नमः खंडेंदुधारिणे
वंदे त्वां भूतभर्त्तारं सदा शत्रुविनाशनम्
वन्दे त्वां त्रिदशाध्यक्षं विश्वाध्यक्षं महेश्वरम्
वंदे त्वां सर्वदा देवं दैत्यसंघातनाशनम्
एवं स्तुतः स भगवाँल्लिंगरूपी महेश्वरः
किं तेऽभीष्टं करोम्यद्य किं ददामि पितामह
इति लिंगवचः श्रुत्वा कथितं ब्रह्मणा तदा
जलं गृहाण वाणीश शस्त्रजं शत्रुवारणम्
इत्युक्तः सत्वरो ब्रह्मा गतो यत्र जनार्द्दनः 5.2.65.
स पुलोमा महानासीत्स्वारोचिषेंऽतरे मनौ
ददर्श तत्र तल्लिंगं नाम चक्रे जनार्द्दनः तस्माद्ब्रह्मेश्वरोनाम ख्यातिं लोकेषु यास्यति
ये द्रक्ष्यंति नरा भक्त्या देवं ब्रह्मेश्वरं शिवम्
यस्तु पश्येत्प्रसंगेन देवं ब्रह्मेश्वरं शिवम्
यः पुष्करं नरो गत्वा तपो वर्षशतं चरेत्
पंचपातकसंयुक्तो यो मर्त्त्यो दुष्टमानसः
चांद्रायणानां विधिवद्दशानामेव यत्फलम्
इत्युक्त्वा गतवान्विष्णुर्वैकुंठं शाश्वतं प्रिये
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनाम पंचषष्टितमोऽध्यायः
यस्य दर्शनमात्रेण महापापं शमं व्रजेत्
जल्पोनाम महादेवि राजाभूद्भुवि विश्रुतः
विकल्पबहुलो नित्यं संसारगतिचिंतकः
तस्य राज्ञो वरारोहे मूर्ताः पंचाग्नयो यथा विक्रांतः पंचमः पुत्रः सर्वे शस्त्रास्त्रपारगाः
पित्रा जल्पेन ते राज्ञा पृथग्राज्ये प्रतिष्ठिताः
प्राच्यां सुबाहुर्नृपतिर्याम्यां वै शत्रुमर्दनः