अहं पतिर्वो भविता ततो मोक्षमवाप्स्यथ लिंगरूपी भविष्यामि नाम्ना पशुपतीश्वरः
अथ ते त्रिदशाः सर्वे दृष्ट्वा देवं तमीश्वरम् ब्रह्मा पशुपतिं प्राह प्रसन्नेनांतरात्मना
ये त्वां पश्यन्ति देवेश भक्त्या परमया युताः स्वकैः कर्मविपाकैश्च तेषां मोक्षो भविष्यति
अज्ञानाज्ज्ञानतो वापि यत्पापं क्रियते नरैः
ते नराः पशवो लोके किं तेषां जीविते फलम्
कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम्
पौषमासे तु संप्राप्ते ये त्वां पश्यंति मानवाः
सूर्यग्रहे यथा दत्तं कुरुक्षेत्रे विशेषतः
पौषमासे दिनैकेन नराणामधिकं तथा 5.2.64.
इत्युक्त्वा भगवान्ब्रह्मा ब्रह्मलोकं गतो नृप
तस्मात्त्वमपि राजेंद्र यदीच्छसि परां गतिम् महाकालवनं गत्वा इन्द्रेश्वरस्य दक्षिणे
तस्य तद्वचनं श्रुत्वा नारदस्य महात्मनः दर्शनात्तस्य लिंगस्य गतोऽसौ परमां गतिम्
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पशुपती श्वरमाहात्म्यवर्णनंनाम चतुष्षष्टितमोऽध्यायः
यस्य दर्शनमात्रेण ब्रह्मलोको ह्यवाप्यते
पुलोमानाम दैत्येंद्रो महाबलपराक्रमः
आनर्चुस्तेऽपि तं दैत्यं सुरेशं त्रिदशा इव
अद्यापि लोकपालानामर्केंदुज्वलनांभसाम्
यदि नाम ततः किं मे तपसा जीवितेन च
सर्वैरेतैः परिवृतः पौलोमैर्बलवत्तरैः तावच्छयानं सहसा ह्यपश्यन्मधुसूदनम्
शारदाभ्रसमाभासं मध्येकालं यथा घनम्
अयं स दानवगिरिवज्रो हि मधुसूदनः
दैत्यसीमंतिनीकांतपत्रवल्लीप्रभंजकः
गतशंकः स्वपित्येकः सर्वदा कुटिलाशयः 5.2.65.
इत्युक्त्वा स हि दैत्येंद्रः पुलोमातिरुषान्वितः ददर्श नाभिकमले चिन्तयानं पुनःपुनः
अथ व्याकुलतां प्राप्तो ब्रह्मा दृष्ट्वा तदद्भुतम्
अथ बोधं गतः क्षिप्रं कैटभारिर्महाबलः
अजेयः संगरे धीरो ब्रह्माणमिदम ब्रवीत्
असौ लब्धवरो दैत्यः सहसा मां विजेष्यति
तस्माद्गच्छ त्वरायुक्तो महाकालवने शुभे