ततोऽन्ये पुरुषाः पञ्च समायाता नियुध्य माम्
एवं तैः पीडितोऽत्यर्थं पुनर्मोहमुपागतः
दृढो भव महाराज मा विषादं कुरु प्रभो
तस्या वाक्येन विप्रेंद्र मया धैर्येण संयुगे
प्रलीना मच्छरीरे तु केप्यते कापि साऽबला
ये त्वया पुरुषा दृष्टास्त्वयि लीना जिता मृधे भ्रमन्ती या च नारी सा त्वया दृष्टा नृपोत्तम
मनोरूपेण सा बुद्धिर्भ्रमत्येव हि न स्थिरा
सोऽपि क्रोधवशं नीत इन्द्रियैर्विषयैः प्रियैः
महादेवो जगन्नाथः सृष्टिसंहारकारकः 5.2.64.
सुरा विभूतयो यस्य क्रीडार्थं भुवनत्रयम्
पूष्णश्च दंताः संभग्ना मोहितश्च दिवाकरः
पशवश्च कृता देवा मुनयो वेदवर्जिताः
दुर्जयानीन्द्रियाण्याहुर्मुनयो वेदपारगाः
तस्माद्राजन्महाबाहो मा विषादं वृथा कृथाः पशुपालो महादेवि वक्तुं समुपचक्रमे
पशुभावाच्च ब्रह्मापि श्रोतुमिच्छामि कथ्यताम्
तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत्
ब्रह्माणमग्रतः कृत्वा गताः शरणमीश्वरम्
उवाच वचनं राजन्यत्कर्तव्यं तदुच्यताम्
देवा ऊचुः देवस्त्वं पूर्ववद्देव यदि तुष्टो महेश्वरः ।।5.2.64.
महाकालवने क्षेत्रे पशुभावविमोक्षके
अहं पतिर्वो भविता ततो मोक्षमवाप्स्यथ लिंगरूपी भविष्यामि नाम्ना पशुपतीश्वरः
अथ ते त्रिदशाः सर्वे दृष्ट्वा देवं तमीश्वरम् ब्रह्मा पशुपतिं प्राह प्रसन्नेनांतरात्मना
ये त्वां पश्यन्ति देवेश भक्त्या परमया युताः स्वकैः कर्मविपाकैश्च तेषां मोक्षो भविष्यति
अज्ञानाज्ज्ञानतो वापि यत्पापं क्रियते नरैः
ते नराः पशवो लोके किं तेषां जीविते फलम्
कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम्
पौषमासे तु संप्राप्ते ये त्वां पश्यंति मानवाः
सूर्यग्रहे यथा दत्तं कुरुक्षेत्रे विशेषतः
पौषमासे दिनैकेन नराणामधिकं तथा 5.2.64.
इत्युक्त्वा भगवान्ब्रह्मा ब्रह्मलोकं गतो नृप