ततो ज्यास्वनमाकर्ण्य कुजंभो दानवेश्वरः
ततो युद्धमभूत्तस्य सह राज्ञा वरानने
ततः कोपपरीतात्मा मुशलायाभ्यधावत
यावद्गृह्णाति मुशलं तावत्सा च मुदावती
ततः स गत्वा युयुधे मुसलेनासुरेश्वरः
धनुर्ज्याघातशब्देन पतिते भूतले तदा
ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः 5.2.63.
स चापि राजा तं हत्वा पुत्रौ लब्ध्वा सुतां तदा
पुत्राभ्यां सहितो देवि सुसंपूर्णमनोरथः
महाकालवने रम्ये यत्र तल्लिंगमुत्तमम्
कुजंभोऽपि हतो दैत्यो देवविद्वेषकारकः
भक्त्या ये पूजयिष्यंति धनुःसाहस्रमीश्वरम्
अर्चिते देवदेवेशे धनुःसाहस्रिके शिवे
प्रातर्मध्येऽपराह्णे च धनुःसाहस्रकं शिवम्
तीर्थानां च यथा गंगा रक्षिता योधसत्तमैः
तत्र गंगादितीर्थानि विद्यन्ते विविधानि च 5.2.63.
तेषां फलं विनिर्दिष्टं ये पश्यन्ति तु भक्तितः
एष ते कथितो देवि प्रभावः पापना शनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीति लिङ्गमाहात्म्ये धनुःसाहस्रमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्यायः
यस्य दर्शनमात्रेण पशुयोनिर्न लभ्यते
पशुपालो महादेवि बभूव भुवि विश्रुतः
दिदृक्षुः स कदाचिच्च गतस्तोयनिधिं प्रति एका स्त्री मुक्तकेशा सा भ्रमन्ती च पुनःपुनः
अथ राजा भयाविष्टो विसंज्ञः समपद्यत
ततोन्ये समपातं च आगत्य नृपसत्तमम्
रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः
तस्य तां धृष्टतां ज्ञात्वा स्थैर्यं च नृपतेर्मृधे
अमूर्ता इव ते सर्वे एकीभूतास्ततोऽभवन्
अथापश्यत्तदाऽऽयांतं नारदं मुनिपुंगवम्
अकस्मात्पुरुषाः पंच समायाता भयावहाः ।। 5.2.64.
तैरहं वेष्टितो दुष्टैर्व्याकुलश्च कृतस्तदा