एतच्छ्रुत्वा महीपालः क्रोधपर्याकुलेक्षणः
दृष्ट्वा भूमौ पुरा गत्तें तत्र संशयिते मयि
स हन्यतां सोऽपहर्त्ता मुदावत्याः सुदुर्मतिः
तौ सुतौ तत्र संप्राप्तौ पाताले पितृशासनात्
ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः
ततो मायाबलवता तेन दैत्येन तत्क्षणात्
हत सैन्यौ रणे बद्धौ राजपुत्रौ महाबलौ ।। 5.2.63.
ततः श्रुत्वा महीपालो विवर्णवदनोऽभवत्
रुरोद बहुधात्यर्थं पुत्रस्नेहेन पार्थिवः अनेकसृष्टिसंहारदृष्टकार्यपरावरः
उदितादित्यसंकाशः सप्तकल्पानुगो वशी राजानं कथयामास त्रिकालज्ञो महामुनिः
मा शुचस्त्वं महीपाल क्षत्त्रियोऽसि दृढव्रतः
शोकं कुपुरुषाचीर्णं त्यज त्वं राजसत्तम
नात्युच्चं मेरुशिखरं नातिनीचं रसातलम्
महाकालवने लिंगमाराधय समाहितः
धनुःसाहस्रतुल्यं तु मुशलस्य निवारणम्
धनुःसाहस्रहस्तैस्तु रक्षितं योधसत्तमैः इंद्रेण च धनुर्लब्धं जंभो वै येन पातितः
तस्य तद्वचनं श्रुत्वा स राजाथ विदूरथः 5.2.63.
ददर्श तत्र तल्लिंगं पूजयामास भक्तितः
धनुःसाहस्रतुल्यं च मुशलस्य निवारणम् जगाम धीरः पातालं तेन गर्तेन सत्वरम्
ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवस्तदा
ततो ज्यास्वनमाकर्ण्य कुजंभो दानवेश्वरः
ततो युद्धमभूत्तस्य सह राज्ञा वरानने
ततः कोपपरीतात्मा मुशलायाभ्यधावत
यावद्गृह्णाति मुशलं तावत्सा च मुदावती
ततः स गत्वा युयुधे मुसलेनासुरेश्वरः
धनुर्ज्याघातशब्देन पतिते भूतले तदा
ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः 5.2.63.
स चापि राजा तं हत्वा पुत्रौ लब्ध्वा सुतां तदा
पुत्राभ्यां सहितो देवि सुसंपूर्णमनोरथः
महाकालवने रम्ये यत्र तल्लिंगमुत्तमम्